________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अस्तु यत् किमपि स्यात्, प्राचीनविद्वत्परम्परामनुसरता स्वकीयश्लाघानिरपेक्षेणाऽनेनाऽपि स्वकीयेऽस्मिन् कोषे देश-काल-जाति-वंश-गुरु-पितृ-मातृ-प्रभृतिपरिचय प्रदानमुखरा कापि सामग्री क्वापि नोकिता। सम्प्रति दिवङ्गतोऽप्ययम् 'अमरः', सर्वथा स्वात्मानं गोपायितुकामोऽपि 'सिंह' आसीदेव, नात्र वैमत्यं कस्यापि ।
रचना-अमरसिंहस्य केवलं नामलिङ्गानुशासनमेवोपलभ्यते । मुकुटस्तु ‘पद'चन्द्रिकायां' बृहदमरकोषमपि बहुत्र निर्दिशति, तत्र वयं तूष्णींभावं भजामः । एवं सदुक्तिकर्णामृते-अमरसिंहस्य नाम्ना पञ्च पद्यानि समुद्धृतानि सन्ति यदि सोऽयमेवाऽऽसीत्त हि अयं कवित्वेनाऽपि स्वीकर्तव्यः । अथवा काव्यरचयिता स्यादन्यः कश्चिदमरसिंहः, यतोऽस्य वर्णनं नान्यत्र सुलभम् । विषयेऽस्मिन् विदुषां सन्ति विभिन्ना धारणा: । 'काव्यकल्पलतायाः' कर्ता श्वेताम्बरजैनः-अमरचन्द्रः सर्वथाऽर्वाचीन इति ज्ञातव्यः ।।
अमरकोषस्य टीका:-अमरकोषापराभिधस्य नामलिङ्गानुशासनस्य सुप्रसिद्धत्वात् सुधीजनप्रियत्वाच्च तदाशयविशदीकरणबद्धपरिकरैः पण्डितप्रवरैः समये समयेऽस्य बह्वयष्टीकाः समुल्लिखिताः सन्ति । तासां नामोल्लेखः पिपठिषूणां ज्ञानवर्धनायाऽत्र विधीयते ।
कौमूदी
व्याख्याः व्याख्याकाराः व्याख्या:
व्याख्याकाराः व्याख्याप्रदीपः अच्युतोपाध्यायः अमरविवेकः महेश्वरः काशिका काशीनाथः मधुमाधवी माधवः अमरकोषोद्धाटनम् क्षीरस्वामी पदचन्द्रिका मुकुट:
नयनानन्दः त्रिकाण्डचिन्तामणिः रघुनाथचक्रवर्ती पदार्थकौमुदी नारायणचक्रवर्ती | त्रिकाण्डविवेकः रामनाथविद्यावाचस्पतिः शब्दार्थसन्दीपिका नारायणविद्याविनोद: प्रदीपमञ्जरी रमेश्वरः अमरपञ्जिका नारायणवेदान्तवागीशः पीयूषम् रामकृष्णदीक्षितः सुबोधिनी नीलकण्ठः वैषम्यकौमुदी रामप्रसादतर्कालंकारः अमरचन्द्रिका
परमानन्दमैथिल: । पदविवृतिः लिङ्गयसूरिः मुग्धबोधिनी भरतमल्लिकः पदमनरी लोकनाथः व्याख्यासुधा रामाश्रमः टीकासर्वस्वम् सर्वानन्दः शारदासुन्दरी मथुरेशविद्यालंकारः व्याख्यामृतम् । अज्ञातः विद्वन्मनोहरा महादेववेदान्ती सन्देहभञ्जिका अज्ञातः
For Private and Personal Use Only