________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एतदतिरिक्ता अपि भूयस्यः टीकास्तत् तद्देशीयभाषासु ( सिंहल, स्याम, ब्रह्म, महाराष्ट्र, तेलगु. तिब्बत, कर्णाटक, कश्मीरप्रभृतिषु ) दृष्टिपथं यान्ति ।
पुरातनपरम्परायां बालानां सुखबोधाय सर्वप्रथमं शब्दरूपावल्या, धातुरूपावल्या, अमरकोषस्य चानिवार्यत्वेन पाठनं कारयन्ति स्म गुरुजनाः । साम्प्रतिकाः संस्कृताधिकारिणस्तु कोषस्योपयोगितामनुभवन्तोऽपि पाठ्यक्रमरूपेणतस्य निर्धारण नितरां मन्दादरा दृश्यन्ते । ते सम्यग् जानन्ति यत् कोषज्ञानमन्तरा कोऽपि विद्वान् भवितुं नार्हति । हंहो ! तथाप्यत्र ताटस्थ्यम् ? पुनरपि ज्ञाताऽऽस्वादा अमरकोष विहातुं न समर्था अद्यापि । यतोऽत्र विषये सुप्रसिद्धमिदमामाणकं जागति विदुषां मनःस-'अमरकोषो जगत्पिता' । इति ।। ___ संस्कृतवाङ्मये प्रविविक्षणां, लब्धप्रवेशाणां, विश्वविश्रुतानां पण्डितपुङ्गवानाञ्च राज्ञां कोषस्येवास्य 'अमरकोषस्य' संस्कृतसमाजे समादरं समालोचयभिः ममस्तसंस्कृतवाङ्मयस्य प्रचार-प्रसारकर्मतत्पर श्-चौखम्बा-सुरभारती-प्रकाशनाधिकारिभिरेतस्य हिन्दीभाषायां व्याख्या-टिप्पण्यादिलेखनाय चिरं प्राथितोऽहम् । तदनु श्रौतस्मार्तधुरन्धराणाम्, आयर्वेदागमकोविदानां वैद्यरत्नपदवीधारिणां पितृचरणानां सहजकृपापात्रताङ्गतेन मया व्याख्याकर्मणि पदं न्यधायि । ये च अस्फूटवाचम्, अक्षरज्ञानविधुरमपि मां बाल्ये वयसि प्रथमप्रथमम् अमरकोषमेव प्राबोधयन् ।।
तेषां समेषामऽन्येषाञ्च गुरुजनानामाशीर्वादपरम्परया कोषस्यास्य व्याख्या प्रत्यूहलेशं विनैव पूर्णतामगात् । सोऽयमिदानीम् 'अनेकार्थध्वनिमञ्जरी-द्विरूपकोषेकाक्षरकोषैश्च' समुपबृंहितः स्वकीयामधिकाधिकामुपयोगितां बिभ्राण: सुधीजुषां विदुषां करसरोरुहस्पर्शसुखानन्दसन्दोहमनुभविष्यतीति बाढं विश्वसिमि । ____ अन्ते सकलशब्दविग्रहात्मकं साम्बं सदाशिवं प्रार्थयस्तेषां तेषामधमणभावमङ्गीकरोमि येषां कृपालेशतोऽपि ग्रन्थस्यास्य कलेवरकल्पना समभूत् । ग्रन्थेऽस्मिन् यत्र कुत्रचित् काश्चित् त्रुटयः शीशकाक्षरसंयोजकानां प्रमादाद् दृष्टिदोषाद् वा स्युः सहृदयधुरीणा: सुधियः ताः सम्मायं सर्वथाऽस्माननुगृहीष्यन्त्विति । पर्यन्ते व्याख्याकर्तुर्भरतवाक्यायितमिदं पद्यम्
अमरगणसमृद्धे दैत्यगन्धर्वपुम्भिः क्षितिपुरगिरिसिंहैः काननाद्यैश्च युक्त । अमरकृतिसमुद्रे यत्नपूर्व निमज्य प्रचिनुत बुधवाः शब्दरत्नानि कामम् ॥
आषाढशुक्ले १५ गुरौ
२०३७ संवत्
विद्वद्विधेयःडॉ० ब्रह्मानन्दत्रिपाठी
For Private and Personal Use Only