Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ ni 'प्रशान्ते'ति ।.आगताश्च प्रशान्तवाहितां जीवास्त्यक्त्वा भवाभिनन्दितां मोक्षमेव गम्भीराशयतयाऽभिप्रेयन्ते / / पञ्चसूत्रआगमो न च स्वप्नेऽप्येते मुक्त्वाऽपवर्ग अन्यं सम्यक्त्वलक्षणेन संवेगेनाङ्कितत्वादभिलषन्ति / किञ्च-विनाऽऽशयस्य वार्तिकम द्वारककृति | गाम्भीर्यमनादिकालीनाया मोहवासनाया मुक्तिः, सर्वकालसिञ्चिताया इन्द्रियार्थप्रसक्तेः पराकरणं, सन्दोहे | वाह्यार्थसाधनसावधानमात्रादिकुटुम्बजनस्य निर्मुक्तिरंशतोऽप्यननुभूतस्य मनसोऽप्यतिक्रान्तविषयस्य मोक्षस्य // 127 // पुरस्कारेण सर्वप्रयत्नेनोद्यमनं, विविधभावनाङ्कितदुर्धरमहाव्रतधुराधरणं, जीवितान्तकराणामपि परीषहोपसर्गाणामापाते निरवद्यसंयमसाधनपुरस्सरमात्मनिःश्रेयससाधननिष्णत्वं न कदाचनापि कस्यापि शक्यतापदमापनीपद्येत / अतिपरिचितानामनादिसम्बद्धानामनुपदमनुभवपदवीमागच्छतां पूद्गलसमूहानां परमार्थपरम रिपुताध्यवसानेनात्मस्वभावभूतसम्यग्दर्शनादिरत्नत्रयीद्वारावाप्य शाश्वतात्मीयानन्दमयापवर्गप्राप्तिप्रवणताप्रव्रजनसमतिप्रशान्तगम्भीराशयकार्यमनन्यसाधारणमवसेयं / प्रशान्तगम्भीराशया अपि गृहिलिङ्गादिसिद्धिश्रवणाद प्रतिज्ञातसावद्ययोगा अपि स्युः। अपि च-भगवतोऽर्हतः शासनं यद्यपि गुणानुरागमूलं, प्रधानश्च गुणानामेवानुरागस्तत्र परं व्यवहारपथः सलिङ्गा एव गुणा, न निर्लिङ्गाः / अत एव चोत्पन्नकेवलस्यापि भगवतो भरतस्य न शक्रेन्द्रेण केवलमहिम्ना समागतेनापि वन्दनं कृतं, किन्तु विज्ञप्तिरेवं कृता यदुत-प्रव्रज्यां गृह्णीध्वं, येन करोमि वन्दनमिति / प्रस्तुते शरणाधिकारेऽपि न प्रशान्तगम्भीराशया अपि अप्रतिज्ञातसावद्या योग्याः शरणे इत्याह-'सावधयोगविरता' इति / संसारिणो हि जीवाः समस्ता | अपि सयोगा एव, केवलमलेश्यावस्थामुपगता एव मुक्तिसोधसोपानस्था अयोगिनः / योगश्च यस्य स ! IS सर्वोऽपि पाणिवर्गों यथायथमवद्यबन्धनबद्धव्यापारः। अत एव मिथ्यादर्शनादनन्तरं जैनशासने बन्धधा- ISI IS माभिमतमव्रतमिति / जैने हि दर्शने पापादविरमणे पापक्रियाया अकरणेऽपि सुप्तमूच्छितक्रियचौरामि // 32 // IP Ad Gunratnasuri M.S . Jun Gun Aaradhak Trust

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193