Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ // 139 // आगमो- I अमत्तावस्थायां विज्ञतमोऽपि तत्तया ख्यातोऽपि नरो यदा मत्तावस्थामुपगतो भवति, तदा निर्विवेकि- Dil पञ्चसूत्रन द्वारककृति-10 शेखरो भवति, तथानापि शासने क्षायिकसम्यग्दर्शननन्दिषेणादिवत् प्रकृष्टश्रुतधारकोऽप्यसुमान मोहमदिः वार्तिकम् त रामत्तो भवति, तदा निर्विवेकिशेखरमिथ्यात्वान्धितहक्समचेष्टाको भवति / अत्र तु मोहस्य तिमिरेणोपमा / सन्दोहे Hसा दर्शनमोहनीयस्य यथार्थतत्त्वबोधश्रद्धानप्रतिपन्थकत्वमाश्रित्योक्तेति ज्ञेयं / बुद्धो हि केवलिप्रज्ञप्तो धर्मोऽवश्यं मोहतिमिरं विनाशयति / अनन्तशोऽप्यात्तानि चारित्राणि मोक्षफलमाप्ति प्रत्यफलान्येव जातानि / भगवतः केवलिनो धर्मस्य वोधरूपस्य लब्धिस्तु न जातु कस्यापि मोघीमवति, यतो ये: त कोऽप्यसुमान् लभते भगवतः केवलिनो धर्मस्य बोधि, स नियमादन्तरपार्धपुद्गलावर्तादनावृत्तिपदं A लभेतैव, ततो यथार्थमुक्तं भगवता केवलिना प्रज्ञप्तं धर्ममधिकृत्य मोहतिमिरांशुमाली'ति / लब्धे च / म धर्मबोधौ जन्तुरवश्यमर्वाक् पल्योपमपृथक्त्वाद्देशविरतः स्यात् / सङ्ख्यातेषु सागरोपमेषु क्रमशः क्षप्यमाणेषु चारित्रं उपशमश्रेणिः क्षपकश्रेणिश्चावश्यं तस्य भवतीति / क्रमशः सकलमोहस्य नाशकत्वादपि धर्मबोधेरेव मोहतिमिरांशुमालिता ज्ञेया / अत एवं रागद्वेषंविषपरममन्त्र इत्यग्रेतनं विशेषणं / तत्रानन्तानुवन्ध्यादि चतुष्कं नवनोकषायसहितं रागद्वे शब्देन ग्राह्यं / तथा न स्थानमारेकाया यदुत-य एव मोहः, स एव रागद्वेषौ त यावेव च रागद्वेषौ तावेव मोह इति कथं मोहस्य रागद्वेषयोश्च पृथग्रहणमिति / अत एव रागस्य सक्लेशजनकता Hद्वेषस्य शमेन्धनदावानलता या प्रतिपादिता भगवता श्रीहरिभद्रसूरिणा सा अशुद्धवृत्तकरणहेतुताच मोहस्य सङ्गच्छतेतमा / विहायैव विषयतृष्णां गम्यागम्यविभागं विना सर्वत्र वर्तनारूपां लभते भगवत्केवलिप्रज्ञप्तं बोधिमिति नियमात् / ज्ञापित चैतषोडशके श्रीहरिभद्रसूरिभिर्यथा तथैव श्रीमद्भिरभयदेवसूरिभिरपि | 139 // स्वकीये . नवतत्त्वप्रकरणभाष्ये स्पष्टितमेव-ताश्या विषयतृष्णायाः . शमनमेव . सम्यक्त्वस्य Ac. Gunratnasuri M.S Jun Gun Aaradhak Trust

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193