Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ आगमो- बारमा सन्दोहे वा वार्तिकम् 5182 // | पातितया, तदपि तजन्यस्य सातवेदनीयफलस्यैवाप्रतिपातितया, न तु स्वरूपे। परमिद II प्रणिधानसूत्रपठनादि तु स्वरूपेणैवाप्रतिपातीति दर्शयन्तः प्रस्तुतस्य प्रणिधानसूत्रस्य |jil पञ्चसूत्र पठनादेरुपदेशायाहुः-'अप्पडिबंधमेय'ति / नात्र किश्चिदपि तादृशं विद्यते जगति, सुप्रणिधानमेतत् | | प्रतिबधीयात् / तथा, चाऽप्रतिहतसामर्थ्यमेतत्प्रणिधानसूत्रपाठादेरुद्भूतं सुप्रणिधानमिति / किञ्च-यद्यपि | जैने शासने पुण्यस्य पापस्य च स्वतन्त्रतया सत्तेष्यते, तेन पुण्येन पापमितरद्वेतरेण प्रतिहन्यते इति नाभिमन्यते। दृश्यते चान्धनृपपुत्रादिषूभयमपि वेद्यते इति / पर अशुभभावाः शुभभावेनावश्यं निरुध्यन्ते, IN आश्रवबन्धाध्यवसायानां संवरनिर्जराध्यवसायनिरोधस्यागमसिद्धत्वादत आहुः-'असुहभावनिराहेणं सुहभावबी' ति 'सुप्पणिहाणं सम्मं पढियव्वं सायव्वं अणुप्पेहेयव्वं'ति / 'शुभोदर्काय वैकल्यमपि पापेषु कर्मसु'इत्यादिवचनात् चौर्यायध्यवसायानामप्रतिहतानामपि निद्रादिभिः प्रतिघातस्य दर्शनात् नात्रैवम् / अत्र तु प्रस्तुत- 4 प्रणिधानसूत्रपाठादिगतेनाध्यवसायेन विषयादिगताशुभाध्यवसायानां निरोधो भवति / तथैव गताश्रवाणामेव मंवरप्रवृत्तिवद् गताशुभाध्यवसायानामेतत्पठनादि विदधाति निरोधं, तेनैव चैतत् शुभभावबीजं नियमेनेति स्पष्टयन्ति / एवमुपदय सर्व स्पष्टमादेशयन्ति सूत्रकाराः-'पठितव्य'मित्यादि / 'इरियासमिए सया जए'इत्यादिवद् विधानाय विधीनामुपदेशः 'नियट्टिज्ज जय जईत्यादिवच्च हेयानां हानायोपदेशः शास्त्रकृतां सदा प्रवर्तत इति कृत्वाऽऽज्ञाभियोगाद्याशङ्का कार्या प्रत्यपाये शास्त्रकर्ता न शिक्षायै तोशायवा [य ता] यतन्ते भाविनां प्रत्यपायानामपि अवश्यफलतयैव दर्शनात् स्वयं तद्विधानोद्यता नेति आज्ञाबलाभियोगशङ्काऽपि नात्रेति / किमाज्ञापयन्ति सूत्रकारा? इति चेत् / प्रणिधानसूत्रमेतत् ? सुप्रणिधानमेवेतिहेतोः पठितव्यं श्रोतव्यमनुप्रेक्षयितव्यं चेति / एवं चार्थदेशकत्वं यदाचार्याणां शासने गीयते P.AC. Gunratnasuri M.S. // 18 // Jun Gun Aaradhak Trust

Page Navigation
1 ... 189 190 191 192 193