Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ आगमो- | तदेतदाज्ञादानसूत्रेण सत्यापितमाचार्यैरिति / पठनादयश्च प्राविवृता एवेति न विवियन्ते। अत्र च / पञ्चसूत्रद्वारककृति- प्रणिधानसूत्रं समाप्यते इति दर्शनाय सूत्रकारैः इतिशब्दोऽन्ते धृत इति / एवं भवितुकामानां पाठथं वार्तिकम सन्दोहे प्रणिधानसूत्रं समाप्य स्वयमारब्धेषु पञ्चसु सुत्रेषु / सूत्रस्याधस्य 'नमो वीयरागाण'मित्यत आरब्धस्य | ID नामज्ञापनपुरस्सरमुपसंहारमाहुः सूत्रकाराः-'नमो नमिअनमिआण'मित्यादि यावत् 'समत्त'मिति / 'देवावि तं // 183 // Kil णमंसंति जस्स धम्मे सया मणो'त्तिवचनाद् सर्वेऽपि धर्मपरायणा देवैर्नम्यन्ते / किश्च-श्रीव्याख्या प्रज्ञप्त्युक्तसनत्कुमारादीन्द्रादीनां सर्वदाऽस्त्येव श्रमणानां निर्ग्रन्थानां समाराधना, ततश्च देवादिभिर्नम्या ये गणधरादयो निर्ग्रन्थास्तै ताः परमवीतरागा इति तेषामहंतां नतनतत्वम् / किश्च-'तस्मादर्हति पूजामहन्नेISI वोत्तमोत्तमो लोके। देवर्षिनरेन्द्रेभ्यः पूज्येभ्योऽप्यन्यसत्त्वाना मिति तत्त्वार्थभाष्यकारोक्तोत्तमोत्तमकोटीपुरुषत्वा दप्यर्हन्तो भगवन्तो नतनता इति तेभ्यो नम इति / यद्यपि वीतरागशब्देन बन्धोदयसत्तागतस्याभावः ख्याप्यते . तथापि भगवतामर्हतामेव तथाभूतानां ग्रहणमिति परमवीतरागेभ्य इत्याहु / एवं चाहतो - नमस्कृत्य शेषनमस्कार्यनमस्कारार्थमाहुः-'नमो सेसनमुक्कारारिहाणं'ति / अनेन च पदेन सर्वेऽपि / सिद्धाचार्योपाध्यायमुनिरूपा नमस्कार्या अखिलशासनस्य, ते आक्षिप्ताः / नहि जैने शासने कश्चिदपि।। परमेष्ठी नमस्कारानई इति योग्यमुक्तं-'नमः शेषनमस्कारार्हेभ्य' इति / एवं पूज्याराध्यानशेषान्नमस्कारेणा राध्याऽऽशंस्यमाहुः-'जयउ सव्वण्णुसासणं'ति / अत्रावधेयमिदं यदुत-नवपद्यां सिद्धचक्रयन्त्रे च यानि | IM नवपदानि ख्यातानि, आद्यानि तेषु पश्चाराध्यपूज्यतोभयपदेोपेतानि, परं सम्यग्दर्शनादीनि तु चत्वारि गुणरूप त्वादाराध्यान्येव / अत एव पूज्याराध्योभयधर्मोपेतन्वात् पञ्चपरमेष्ठि नमस्कारादि परं यानि सम्यग्दर्शनादीनि चत्वा राध्यानि पदानि,तान्येव जैनशासनं। उभयावधारणं चात्रापि-यद् नान्यत् सम्यग्दर्शनादिभ्यो जैन सर्वज्ञोद्भावित | शासनं, न च तादृशं शासनं व्यतिरिच्य सम्यग्दर्शनादीनि / ततः-'सुष्टुक्त जयतु सर्वज्ञशासन'मिति HP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Page Navigation
1 ... 190 191 192 193