Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ मागमा 10 तेषां भरतादिक्षेत्राश्रितत्वेन / अत्र तु शाश्वतजिनानामृषभादीनामिव क्षेत्रकालानाश्रितानां परमेष्ठिनां ग्रहणार्थं | पञ्चसूत्रद्धारककृति- सर्वेषामहदादीनामनुष्ठानादिकमनुमादितम् / यथा चाईदादीनामनुष्ठानादिकं भवितुकामानामनुमोदनीयं त वार्तिकम् सन्दोहे. पता सुकृतरूपत्वात्तस्य, तद्वदेव सर्वविरतत्वाभावेन पूज्याराध्यत्वाभावेऽपि श्रावकादीनां सम्यग्दर्शनादि- THI भिर्युक्तत्वाद् व्यवहारनयेन च चारित्रेण रहितयोरपि सम्यग्दर्शनज्ञानयोर्मोक्षसाधनत्वात्तदनुमोदनार्थमाह॥१६९॥ | 'सव्वेसि सावगाणं मोक्खसाहणाजोगेच्यादि / यथैव चौपपातिकसूत्रे श्रीवीरदेशनायां निर्ग्रन्थानामनगारत धर्मिणामाज्ञया आराधकत्वमाख्यातं तथैव श्राद्धधर्मिणामप्याज्ञयाऽऽराधकत्वमुक्तं, किन्तु श्राद्धानां देशतो | | हिंसादिभ्यो विरमणरूपं चारित्रमभिमतं च तत्फलतयैव 'जन्मभिरष्टव्येकैरिति ‘स सिध्यत्यन्तर्भवाष्टक' मित्युक्तेरस्ति श्रावकाणां मोक्षसाधनयोगः। तत एव तेषां श्रावकाणां तस्य मोक्षसाधनयोगस्यानुमोदनं | योग्यमेव / न च वाच्यं श्रावकाणां देशतो हिंसादिभ्यो विरतत्वेऽपि देशतोऽ विरतत्वेन | सावद्यारम्भकत्वादयोगोलकल्पत्वान्नानुमोदनं योग्यम्, अनुमोदने च तेषां पार्श्वस्थादीनां | वन्दनादिभिः तद्गतानां प्रमादस्थानानामनुमोदनवत् श्रावककृतानां सावधानामनुमोदनप्रसङ्ग | इति / यतो यो हि यत्र यत्र यावान मोक्षमार्गयोगः, स तत्र तत्रानुमोद्य एव। अन्यथा | सूत्रस्य चास्य व्यर्थकत्वापत्तेः। कामदेवादीनामुपसर्गसहनादिकार्यस्य यावत् सूर्याभादीनां वन्दनादि| कार्यस्य भगवता बीतरागेणैवानुमोदनादिति / पार्थस्थादयस्त्वारूढगुरुपदा अपि गुरुपदस्यायोग्यानां H स्थानानां परिषेवका इति तद्वन्दनादिभिर्गुरुपदायोग्याचाराणामनुमोदनप्रसङ्गः / न च सद्गुरुवन्दनम्त्रेभ्यो | भिन्नानि पार्श्वस्थादिवन्दनसत्राणि, ततश्च गुरुपदाद् दूरवर्तिनां गुरुवन्दनसूत्रेण बन्दने स्यादेव तदीयप्रमादस्थानानामनुमोदनम् / यथा सद्गुरूणां चन्दनेन भावुकानां 'तं महाफलं खु' इत्यादिसूत्रवर्णितो महालाभ इति / यदि च वन्दनीयानामवगुणैरात्मा लिप्यत एव वन्दनकाना, तर्हि छद्मस्था // 169 // U P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193