Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ आगमो द्वारककृतिसन्दोहे // 17 // प्रागनुमोदना प्राग्ग्रन्थेन तथाप्यत्र साऽऽशिषा प्रार्थ्यते 'भवत्वि'त्यनेन / प्रार्थना चाप्राप्ते स्यादिति ज्ञापय- KI पञ्चसूत्रत्याशिषा वचनेन यदुतेच्छात्मिका कृता मयाऽनुमोदना, तथाविधतत्कलाप्राप्तेः, सामर्थ्ययोगरूपा तु नैव / वार्तिकम जातेति सामर्थ्ययोगरूपानुमोदनार्थमेष आशीः प्रयोग इति / तदेव ज्ञापयन्नाह-'सम्मं विहिपुब्वियेत्यादि / यद्यपि भोजनौषधादीनामिव विधिपूर्वकस्यैव धर्मस्य सफलता, भावधर्मताऽपि सम्यग्विधिपूर्वकस्यैवानुष्ठानस्य नापरस्य, परं सम्यविधिपूर्वकताया अशक्यत्वादादौ प्रमत्तभावपूर्वक एवाप्रमत्तभाव इवाविधिपूर्वकस्यैवानुष्ठानस्य भावः प्रारम्भे, परं सोऽविधिर्न बाधको, यः परिहारविषयमानेतुं यत्यते। अत एव शक्याऽविधित्यागपूर्वकस्याविधियुतानुष्ठानस्यापि भावधर्मता त धर्मसङ्ग्रहण्यादावभिमता, परं प्रार्थना तु सम्पूर्णसम्यग्विधिपूर्वकस्येति योग्यमुक्तं सम्यग्विधिपूर्विकाऽनु- मोदना भवत्विति / एवं प्रणिधानविषयमानीयानुमोदनां तस्य सम्यग्विधिपूर्वकतां सुकृतानुमोदनस्य | जीवातुकल्पस्य शुद्धाशयस्य प्रणिधानार्थमाह-'सम्मं सुदासये ति। विदिततममेतत् विदितजैनमतानां विदुषां यदुत-जैने हि शासने हि नानुष्ठानस्य तादृग् महात्म्यं यादृक् शुद्धाशयस्य / अत एवोच्यते,-19 | 'इकोवि नमुक्कारो' इत्यादि -- विंबं महत सुरूपमित्यादि च शुद्धाशयमाहात्म्यायोच्यते च-'भावत्थएण पावइ अंतमुहुत्तेण निव्वाणमित्यादि / यच्चानादिस्थावरादायाता मरुदेव्याद्यजिनजननी मापान्तकृत्केवलित्वं भरतश्च चक्रथादर्शभवनगतोऽप्यवाष केवलं, तत्सवं शुद्धाशयस्यैव महिमानमाख्याति / किञ्च-जैने | शासने शद्धाशयोऽपि द्रव्यप्रतिपयभिलाषेणान्वित एव शस्यते। अत एवान्यगृहिलिङ्गस्थिता अपि केवलमापन्ना अन्तर्मुहूर्ताधिकायुष्का अवश्यं द्रव्यनैर्ग्रन्थ्यं प्रतिपद्यन्ते / अत एवाह-'सम्म पडिवत्तिरूवति / सम्यक् प्रतिपत्तिश्च सैव बिभर्ति शोभां, या स्यानिरतिचारा। अत एव च सामायिकसत्र एव // 17 // MP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193