Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 158
________________ // 14 // आगमो / सर्वजीवारिभूतकर्माष्टकहननात् वन्दनपूजनसिद्धिगतिभ्योऽहत्वात् अर्हन्त इति निरुच्यते, परमहंधातोः / पञ्चसूत्रद्धारककृति पूजार्थत्वात् देवासुरमनुजेभ्योऽशोकायष्टप्रातिहार्यादिपजाया अर्हत्वादहन्त इति वक्तुं योग्यम् / वार्तिकम् यद्यपि 'अगिलाए धम्मदेसणाईहिति नियुक्तिवाक्यं धर्मदेशनाफलत्वमर्हन्नाम्नः कथयति, तथापि तत्रस्थ सन्दोहे आदिशब्दः पूजावाचक इति प्रातिहार्यादिपूजाया अर्हत्वमाईन्त्यमिति नायोग्यम् / अत एव च श्रमणो भगवान् महावीरः तीर्थप्रवृत्तिशून्यमप्याद्यसमवसरणमलञ्चकार. तत्पूजाया जीतत्वादिति अन्नामक दया- II द्यार्हन्त्यं, तच्च प्रत्यवसर्पिण्युत्सर्पिणि चतुर्विशतेरेव जीवाना, चतुर्दशमहास्वप्नसूचितावतारादिमन्तस्ते / / विनाहन्नामकर्मोदयं रागद्वेषादिनामनास्तु सामान्यकेवलिनोऽपि / ते च 'केवलिणो परमोही तिवचनेन KI साधुपद एव / केवलिनस्तु प्रत्यवसर्पिण्युत्सर्पिणि असङ्ख्या एव / ततः स्थितमिदं यदुत-अष्टमहापातिहार्यपूजायुता अर्हन्तस्तेषु / किञ्च-कर्मप्रकृतिषु जिननामकर्म, तच्च लोकानुभावात् प्राक् तृतीयस्मिन् भवे | | बध्यते, तत्पभावाच च्यवनकल्याणकादय आर्हन्त्यनिबन्धना भावा सर्वेऽपि लोकानुभावादेव जायन्ते / | अत एव चास्य निक्षेपचतुष्टयं तदुदयवजीवसमाश्रितं 'नामजिणा जिणनामे त्यादिना गीयते / / | तत्वतो नात्र निक्षेपेण व्यवच्छेद्यव्यवच्छेदकभावः। सिद्धपदादिषु नामसिद्धादीनां व्यवच्छेदेन | H भावसिद्धादयो गृह्यन्ते / तच्चाद्यस्य पदस्याहतानामितिरूपं विधाय आर्हतानां सिद्धानां यावदाह तानां साधूना| मितिकृत्वा प्रतिपदमाईतपदस्यानुवृत्तिं विधाय कार्यमिति / न तत्र लोकानुभावकं कर्म भावपदस्य | वा न्यूनता गणनीयेति / सिद्धाश्चात्र 'सिझंती'त्यादिलक्षणाः 'सिद्धाणं बुद्धाण'मित्यादिलक्षणा | 'असरीरा जीवघणे'त्यादिलक्षणा वा सिद्धानन्तज्ञानादिचतुष्टया ग्राह्याः:। आचार्याश्च सिद्धयजिनार्पित- | // 149 // | शासनस्वामित्वाः पश्चाचारप्रवर्तका, नियमपूर्वकद्वादशाङ्गाध्यापका उपाध्यायाः, स्वजनादिपक्षपातवर्जिततया IMPP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193