Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ / सुरेव / यद्यपि सुरासुरमनुजेषु न सर्वे सम्यग्दृष्टय इति न सर्वैस्तैरेष पूजितः, परं 'सर्वः सत्यं समीहते' आगमो- KI इति न्यायेन धर्मी तिख्यात्यैव वा सर्वेषां. सन्तोषस्य समुत्पत्तेरसत्यं कुर्वाणा अपि सत्यस्य केवलिप्रज्ञ- पञ्चस्वः द्वारकतिKा प्तस्यैव धर्मस्य पूजका इति परमार्थतां निश्चीयतें। एतयैवापेक्षया भगवन्तमहन्तं महादेवमाश्रित्योच्यते यः al वातिकमा पूज्यः सर्वदेवानां, यो ध्येयः सर्वयोगिनां'मित्यादि / यद्वाज़ सुरासुरमनुजानां सर्वेषामग्रहः, सर्वशब्दरसन्दोहे हितत्वात् / विशिष्टाश्च सुरासुरमनुजाः केवलिप्रज्ञप्तं धर्म पूजयन्त्येव, जघन्यतोऽप्यसङ्ख्येयानां सम्यग्दृशां // 138 // सुरासुरमनुजानां प्राप्यमाणत्वादिति / प्राप्यफलस्याभ्युदयस्यानुद्देश्यत्वादाइ-'मोहतिमिरांशुमाली'ति / यद्यपि भगवद्भिः केवलिभिः प्ररूपितो धर्मः सर्वकर्मकक्षहुताशनप्रभः, परं सर्वकर्मणां मूलभूतो मोह इत्यत्र तन्नाशकत्वेन स विशेषितः / किश्च-मणिदीपादिभिज्योतिष्कैस्तमो नाश्यते, तिमिरस्यान्धकारविशेषस्य A नाशकस्तु दिवाकर एव / अत एव च स तिमिरारिशब्देन कोशे संशब्द्यते / यथा च जगति तिमिरं न H सूर्यापरज्योतिष्कनाश्यं तथा मोह तिमिरमपि न केवलिप्रज्ञप्तापरधर्मनाश्यम्, किन्तु तन्नाश्यमेवेति युक्तमुक्तं-मोहतिमिरांशुमाली'ति / यथा च दिवाकरोऽवश्य तिमिर नाशयति तथा धर्मोऽपि S/ केलिप्रज्ञप्तोऽवश्यं मोहतिमिरं नाशयत्येव / अत एवोच्यते-'जन्मभिरष्टव्येकै सिध्यत्याराधकास्तासा'मिति / जा अंशुमाल्युपमानेन ज्ञापयति शास्त्रकार इदं यदुत-यथा यथा ांशुमालिनोंऽशवो लभन्ते प्रसरं तथा तथा जगति तिमिरं प्रणश्यति / तथाऽत्रापि भगवद्भिः केवलिभिः प्ररूपितस्यापि धर्मस्यास्य यथा यथा जीवेषु विशिष्टाराधना तथा तथा विशिष्टो मोहनाशः; यावत् सर्वविशिष्टाराधनाकारिणामन्तर्मुहूर्त्तमात्रेणाप्या पवर्गस्य प्राप्तिकरो मोहनाश इति / यद्यपि शास्त्रेषु मोहस्य 'पडपडिहारऽसिमज तिवचनेन मोहस्य / सुरोपमानतोक्ता सा सम्यग्दर्शनज्ञानवतोऽपि चारित्रमोहोदयेन जोयमानं विकलत्वमपेक्ष्य / यतो जगति MP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193