Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ आगमो- तीर्थका अविप्रतिपन्ना एतस्मिन् वस्तुनि यदुत-सर्वैरपि स्वीकृत आस्तिकैरात्माख्यः पदार्थः रूपरसगन्ध- RI पञ्चमूत्रद्धारककृति-IDI स्पर्शाश्चक्षुरादीन्द्रियगम्या विषयास्तै रहित एव / तथा च नासौ अतीन्द्रियज्ञानिनं विना ज्ञातुं शक्योऽन्यैः। वार्तिकम् सन्दोहे HI अतीन्द्रियज्ञानी च वीतरागपरमात्मानमन्तरेण न कोऽपि जगति भवितुमर्हतीति सर्वतीर्थीयेषु रागद्वेष HNI माहेर्ललनास्त्रीमालासंसर्गहतवीतरागत्वेषु भगवानहन्नेवाऽष्टादशदोपरहितत्वाद्वीतरागः सर्वज्ञः, स एव // 135 // चात्माद्यतीन्द्रियपदार्थानां साक्षात्परिच्छेदविधायी, अन्येषु प्रवृत्तास्ते आत्माद्यर्थवाचकतयाऽऽत्नादयः शब्दास्ते भगवद्वीतरागार्हद्वचनानुकारेणैव / अत एवोच्यते सव्वप्पवायमूलं दुवालसंग मित्यादि / 'उदधाविव सर्वसिंध' इत्यादि तु तर्कानुसारिवावदूकपर्षदुद्गीर्णमतप्रवाहापेक्षं, भगवन्तो जिनेश्वराश्चावगम्य केवलेनाऽखिलान् प्रज्ञापनीयेनरान् भावान् गणभृन्नामकर्मोदयधरणधीरान् गणधरानुद्दिश्य निखिलान् | प्रज्ञापनीयार्थान् साक्षात् सूचकतया वा भाषन्ते। तत्र प्रथमं तावत् लोकादीनां शाश्वतत्वज्ञापनेनाऽकृत्रिमत्वादिज्ञापनायास्तित्वादि समुपदिशन्ति / तदनु नर्ग्रन्थं शासनं तन्महिमानं सुरगत्यादिपुत्पत्तिकारणानि नारकादि-सिद्धभगवदन्तसर्वार्थस्वरूप प्रादुर्भावयन्ति। श्रुत्वा चैतां देशनां गणधरा भगवन्तः Ki शासनोत्पत्तिस्थितिप्रवृत्तिप्रवृद्धिप्रायोग्यां ग्रनन्ति द्वादशाङ्गोमित्यलमतिप्रसक्तेन / आख्यान्तश्च भगवन्तो देशनां hi कर्तव्यतयाऽनगारागारधर्म यथाभद्रकत्वादिकाः सिद्धिसौधावस्थानावसाना दशा उदिश्य समग्रमपि स्वर्गापवर्ग सुकुलोत्पत्त्यादिकं सर्वमपि फलतयाऽऽख्यान्ति / तत एव गीयते धर्मः स्वर्गापवर्गद' इत्यादि। एवं च भगवन्तो-11 | ऽभ्युदयनिःश्रेयसोभयहेतुतया धर्ममाख्यान्ति, परं तत्राभ्युदयहेतुताऽऽनुषङ्गिकीतिधर्मस्य फलम्पापि सा प्राप्या, न साध्या। अत एव न क्वचिदप्या धर्मस्याभ्युदयमुद्दिश्य कर्त्तव्योपदेशः / या तु तत्र नि श्रे-IA // 135 // INI यसहेतुता धर्मस्य सा साध्या प्रयत्नातिशयेनापीति सर्वत्रार्षागमेषु 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग' / P.AC. Gunratnasuri M.S. . Jun Gun Aaradhak Trust )

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193