Book Title: Adhyatmabindu
Author(s): Mitranandvijay, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 45
________________ Jain Education International हर्षवर्धनोपाध्याय निबद्धः स्वोपज्ञवृत्त्या युतः अध्यात्म बिन्दुः ॐ ऐं नमः । अनन्तविज्ञानविभूतिशाली सत्प्रातिहार्याद्भुतभूतिमाली । तीर्थान्तरीया नवबुद्धयोगागमार्थदेशी जयताज्जिनेन्द्रः ॥ अथातः शुद्धात्मानुभवरसिकानामनेककदागमार्थश्रवण-कुदृष्टयुपासन-संस्तवनादिक्रियाभ्रष्टेप्रक्रियापर्याप्तात्मतत्त्वविप्रतिपत्तीनां भव्यसत्त्वानामुपकाराय शुद्धात्मस्वरूपप्रतिपादनपटिष्ठाऽध्यात्मबिन्दुप्रथमद्वात्रिंशिकाविवरण स्पष्टमुपक्रम्यते । तस्य चेदमाद्यं पद्यम् ब्रूमः किमध्यात्ममहत्त्वमुच्चै यस्मात् परं स्वं च विभिद्य सम्यक् । समूलघातं विनिहत्य याति नाभेयभूः केवलमाससाद ॥ | १ || व्याख्या—वयम् अध्यात्ममहत्त्वं किं ब्रूमः ? आत्मनि इत्यध्यात्मम्, विभक्त्यर्थे अव्ययीभावः [ पा० २।१।६ ] | आत्मानमधिकृत्य प्रवर्तमानः कर्तृत्वभोक्तृत्वादिधर्मनिरासपुरस्सरः कश्चन विचारविशेषः शुद्धात्मस्वरूप श्रवण-मनन-निदिध्यासरूपोऽपि लक्षणयाऽध्यात्मम् । तस्य महत्त्वं किं ब्रूमः ? यस्मात् अध्यात्मतः । परम् आत्माऽतिरिक्तमखिलपदार्थजातम् । स्वं च आत्मानम् । सम्यक् संशयविपर्ययाऽनव्यवसायापोहपूर्वकम्, संदिग्धस्य विपर्यस्तस्यानध्यवसितस्यार्थक्रियाऽसाधकत्वाद अज्ञानतः प्रवृत्तानां फैलासंवाददर्शनाच्च । विभिद्य अनादिबन्धपर्यायनिरूपणया क्षीरोदकवत् कर्मपुद्गलैः समं प्राप्तैकत्वमपि भेदज्ञानबलेन पृथक्त्ववृत्तस्वलक्षणतः पृथग् निर्धार्य । तथा घाति आत्मगुणहन्तृत्वात् समयप्रसिद्ध्या मोहनीय-ज्ञान-दर्शनावरणान्तरायलक्षणं प्रकृतिचतुष्टयम् । समूलघातं विनिहत्य समूलं हत्वा 'समूलाकृतजीवेषु हनूकृञग्रहः' [पा०३।४।३६ ] इति णमुल् । 'कषादिषु यथाविध्यनुप्रयोगः ' [पा० ३|४|४६] इति हन्तेरनुप्रयोगः । नाभेरपत्यं नाभेयो भगवान् युगादिदेवस्तस्माद् भवतीति नाभेयभूः प्रथमचक्रवर्ती भरतः । केवलमाससाद केवलज्ञानं लेभे । १ भास० ला० । २ 'अव्ययं विभक्तिसमीप ' इत्यादि सूत्रम् । ३ फलविसं ० सू० । For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108