Book Title: Adhyatmabindu
Author(s): Mitranandvijay, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
द्वात्रिंशिका ]
अध्यात्मबिन्दुः तीर्थप्रवृत्त्यर्थमयं फलेग्रहि
स्त्रिकालविद्भिर्व्यवहार उक्तः । पर(रः) पुनस्तत्त्वविनिश्चयाय
नयद्वयात्तं हि जिनेन्द्रदर्शनम् ॥८॥ व्याख्या–त्रिकालविद्भिः सर्वज्ञैः । अयं व्यवहारः तीर्थप्रवृत्त्यर्थ तीर्थं चातुर्वर्ण्यसङ्घश्रमणस्तस्य प्रवृत्तिस्तदर्थम् । फलेग्रहिः फलवान् उक्तः ।
अयमर्थः-व्यवहारो हि मोक्षोपायप्रवृत्त्यङ्गत्वाद् दर्शयितुमवश्यं तादृगेव । तथाहि-निश्चयेन ह्यात्मनः शरीराद् भेददर्शनेऽमूर्तत्वेन हिंसाऽभावात् त्रस-स्थावराणां भस्मन इव निःशङ्कमुपमर्दनप्रवृत्तेर्भवत्येव बन्धाभावः । व्यवहारनयेन तु क्षीरोदकवच्छरीरेण सह लोलीभावमापन्नस्यात्मनो मूर्तत्वाङ्गीकाराद् य एते एकेन्द्रियादयश्चतुर्दशभूतग्रामास्ते जीवा इति शरीरेण सहाभेदप्रदर्शने शरीरवधे तद्वधस्य कथञ्चिदिष्टत्वाद् भवत्येव प्रत्यवायः । अतस्तत्परिहारार्थ मोक्षोपायप्रज्ञापनमर्हदेवानां सङ्गच्छते । अन्यथा तद्वैयर्थ्यापतेः । तदधिकरणं हि चातुर्वर्ण्यम् क्षयोपशमशक्तिसव्यपेक्षत्वाच्चातुर्वर्ण्यप्रवृत्तेः । किञ्च, बद्धस्पृष्टत्वादीनां भावानां व्यवहारनयेनैव प्रज्ञाप्यमानानां साधुता सङ्गच्छते, निश्चयेन तु निर्लेपवादात्मनो निर्विषयतामेवैते आस्तिध्नुवीरन् । किञ्च, रागादिपरिणामेभ्यः परमार्थतो भेददर्शने तन्मृजासाधनसाम्यमूलकयम-नियमाधुपायप्रदर्शनमपि व्यर्थमेव स्यादिति । व्यवहारनये तु सर्वमपीदं प्रज्ञाप्यमानं सङ्गच्छत इति सुष्टूक्तम्-'तीर्थप्रवृत्त्यर्थम्' इति । पर इति व्यवहारापेक्षया परो निश्चयः । स पुनस्तत्त्वविनिश्चयाय उक्तः। निर्विकारनिरुपाधिदृशि-ज्ञप्तिस्वभावनियतवृत्तिरूपात्मतत्त्वपरिज्ञानं हि निश्चयमन्तरेण न भवतीति स्वसमयप्रवृत्त्यर्थमवश्यं क्रोडीकर्तव्यः । अन्यथाऽनाद्यविद्यावशाद् दृशि-ज्ञप्तिस्वभावनियतवृत्तिरूपात्मत्वात् प्रच्युतस्य परद्रव्यप्रत्ययमोहरागद्वेषादिभिः भावैरेकत्वं गतस्य उदयोदीरणादिवात्याऽsवर्विटपिन इव निर्भरं घूमानमूर्तेः प्रावृषि कापगापाथःपूरस्येव नितान्तं प्रदेशोपयोगाभ्यां कलुषस्य परसमयीभूतस्यात्मनः श्रद्धान-ज्ञानानुचरणैर्वर्षकोटीतप्ततपोभिरपि विशुदयभावात् । तस्मात् कतर्केस्थानीयत्वात् निश्चयस्य पर्यषणं न्याय्यमेव । एतदेवाह-नयद्वय इति । जिनेन्द्रदर्शनं भगवत्सर्वज्ञशासनम् । नयद्वयेन आत्तं
१ मृजा शुद्धिः । २ वात्या वातसमूहः । ३ कापगा कुत्सिता नदी तस्याः पाथः जलम् तस्य पूरस्य इव । ४ जलशुद्धीकरणाय व्याप्रियमाणः 'कतक'नामा पदार्थः ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108