Book Title: Adhyatmabindu
Author(s): Mitranandvijay, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
द्वात्रिंशिका]
अध्यात्मबिन्दुः सौख्यं सांसारिकं दुःखानुषक्तं व्यक्तमध्वनि । ग्रीष्मे पान्थस्य मध्याह्ने मरौ पङ्क्त्यैव खादतः ॥२७॥ भोगेष्वश्रान्तविश्रान्तिधियः क्षेमङ्करी न हि । पन्नगीव नयत्येषाऽतुच्छां मूच्छी यदात्मनः ॥२८॥ यदुच्चैः पदतः पातः सोऽनुभावो विभावजः। तत्रैवाविरतं सक्ति श्रयनद्यापि खिद्यसे ॥२९॥ वपुष्यहंधीनिगडेन काम
चिराय बद्धोऽसि महानुभाव !। बोधस्वरूपोऽयमहं न देही
___ त्यवेत्य तं चिद्रुघणेन भङ्ग्धि ॥३०॥ नाहं वपुष्मान् न च मे वपुर्वा
बोधोऽहमस्मि प्रकृतेविभिन्नः । इयाननेहा न मया व्यभावि
गच्छन्नहो ! मोहविडम्बितेन ॥३१॥ प्रकृतिगुणविरक्तः शुद्धष्टिर्न भोक्ता
तदितर इह भोक्ता तत्स्वरूपानुरक्तः । तदिह भवति भेदाभ्यासशाली जयीति प्रकृतिगुणविकारानङ्कितं स्वं भजध्वम् ॥३२॥
इति श्रीअध्यात्मविन्दौ
सदुपाध्यायश्रीमद्धर्षवर्धनविरचिते करी-कर्मस्वरूपप्रकाशनप्रवणा द्वितीया द्वात्रिंशिका सम्पूर्णा ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108