Book Title: Adhyatmabindu
Author(s): Mitranandvijay, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 89
________________ द्वात्रिंशिका ] Jain Education International अध्यात्मबिन्दुः यथा रज्जौ सर्पभ्रममतिरविज्ञानजनिता क्रियाहेतुर्भूत्वा बुधमपि चिरं व्याकुलयति । तथा देहेऽप्यस्मिन्नहमिति विपर्यस्तधिषणा भवभ्रान्तेर्मूलं परमपुरुषस्यापि समभूत् ॥१५॥ चिरं सुप्ता ह्येते गुरुभवभवदुः खतलिने दृढाविद्यानिद्रापरिगत विवेकेक्षण पुटाः । भृशं स्वप्नायन्तेऽहमिति च परं मामकमिति व्यवस्यन्तः सन्तः कुगतिभवनेऽमी भवभृतः ॥ १६ ॥ प्रविज्ञाते यस्मिन्नतिशयितचिच्छक्तिकवलीकृतत्रैलोक्ये किं समवगमयोग्यं किल परम् । अविज्ञाते त्वस्मिन्नतिनिशितशास्त्रार्थपटुता श्रमायैवात्यन्तं भ्रमकृततुषाऽऽकण्डनमिव ॥१७॥ भवावन्धः सर्वोऽनुभवपदवीं यत्र विि ग्रहाधीशे व्योमाङ्गणमिव तमस्त्रुट्यतितमाम् । भिदामेति क्षिप्रं निविडतरहृद् ग्रन्थिरपि तत् पदं शान्तं भाव्यं सततमुपयुक्तैर्यतिवरैः ॥१८॥ स्वरूपे विश्रान्तिं श्रयति यदि चैतन्यमचलां न तु ज्ञेयासत्त्या व्रजति विकृतिं काञ्चन मनाक् । ततो राग-द्वेपद्वितयमिदमप्राप्तविषयं क्षयं दाह्याभावादहन इव गच्छत्यतितमाम् ॥१९॥ महानन्दस्थानं न हि परमतत्रस्यसि यतः प्रविश्वस्तो यस्मिन् भयपदमतो नान्यदपरम् । ततः स्वात्मारामेक्षणमयी भजस्व स्थितिमहो यतः शीर्यन्तेऽमी भ्रमनिचितकर्माणुनिकराः ॥२०॥ भवारण्यभ्रान्तौ स्वयमजनि हेतुः स्व-परयोरविज्ञानात् स्वस्मिन् यदतनुत कर्तृत्वधिषणाम् । विमोक्षेऽपि स्वस्मिन् स्थितिपरिणतेर्यत्स्वयमसावतः शास्ता स्वस्य स्वयमयमतोऽन्यः किल नहि ॥ २१ ॥ For Personal & Private Use Only ४५ www.jainelibrary.org

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108