Book Title: Adhyatmabindu
Author(s): Mitranandvijay, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 88
________________ हर्षवर्धनोपाध्यायनिबद्धः [चतुर्थी चिरं भेदाभ्यासादधिगतमिदानीं तु विशदं . परं पूर्ण ब्रह्म च्युतविकृतिकमस्मि ध्रुवमहम् ॥७॥ यदज्ञानात् सुप्तः समभवमलं यव्यवसितौ प्रबुद्धस्तत् तत्त्वं चिरमधिगतं मा मदयति । दरिद्रः संप्राप्तधनमिव निधानं प्रतिकलं समालोक्याघ्रातिं कथमिव न गन्तास्म्यहमतः ॥८॥ विवर्तेरस्पृष्टं विशदतममत्यन्तगहनं महः स्तान्नः स्पष्टं प्रकटितनिजानन्दविभवम् । यदास्वादानन्दादगणितमहोभोगविभवाः महासत्त्वा मुक्त्यै चिरमिह यतन्ते कृतधियः ॥९॥ तपश्चण्डं तीव्रतकलनमत्युल्वणपरीपहेभ्योऽभीरुत्वं क्षितिशयनमुख्यः परिकरः । यदज्ञानान्निर्नायक इव हि सेनाचरगणः समग्रो व्यर्थः स्यात् तदिदमहमस्म्यद्भुतमहः ॥१०॥ तदन्वेष्यं तत्त्वं सततमिदमुत्कटतरस्फुरत्तेजःपुञ्जप्रदलितदृढाविद्यममलम् । यदास्वादाद भान्ति त्रिदशपतिचक्रित्वपदवीसुखास्वादाः क्षारोदकवदमृताग्रे ध्रुवममी ॥११॥ समभ्यस्यन्तां नन्वखिलमतशास्त्राणि कुधियः स्वपाण्डित्योत्कर्पोदलितपरदाः किल परे । वपुष्यात्मभ्रान्तिर्यदि न विनिवृत्ता किमु ततो विमुच्यन्ते, पाठो न भवति कदाचिद् गुणकरः ॥१२॥ अविद्यासंस्काराद् बहुतरककालाद् यदभवच्च्युतं मे स्वं रूपं तदिदमुपलब्धं खलु मया । विविक्तं चिदभासा परिगतमनन्तं सुविशदं स्वतन्त्रं तत्रेदं जयति ननु बीजं जिनवचः ॥१३॥ मथित्वाऽऽत्माऽऽत्मानं भवति परमज्योतिरचिराद् यथा घृष्ट्वाऽऽत्मानं क्षितिरुह इहैति ज्वलनताम् । अतः शुद्धे ब्रह्मण्यनवरतनिमग्ना[ऽम]लदृशां शिवाप्तिनिर्दिष्टा सरणिरपरा काचन नहि ॥१४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108