Book Title: Adhyatmabindu
Author(s): Mitranandvijay, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
द्वात्रिंशिका ]
अध्यात्मबिन्दुः इदं हि नानाभवपादपानां मूलोद्भिदं शस्त्रमुदाहरन्ति । सध्याननिष्णातमुनीश्वराणां ध्येयं तदेतत् कृतिभिः प्रदिष्टम् ॥२९॥ कर्मकाण्डदुरवापमिदं हि प्राप्यते विमलबोधवलेन । खिद्यते किमु वृथैव जनस्तद् देहदण्डनमुखैः कृतिकाण्डैः ॥३०॥ अज्ञानतो यदिह किञ्चिदपि न्यगादि जैनागमार्थमतिलय मया विरुद्धम् । तच्छोधयन्तु निपुणाः स्वपरार्थदक्षाश्छद्मस्थधीननु यतः स्खलनस्वभावा ॥३१॥ श्रीहर्षवर्धनकृतं स्वपरोपकारि द्वात्रिंशिकावरचतुष्टयमिष्टबोधम् । तत्त्वार्थिनां रसदमस्तु लसद्विवेकख्याति(त्य)स्खलढुलवदात्मपरा(र)प्रतीति ॥३२॥
__ इत्यध्यात्मबिन्दौ सदुपाध्यायश्रीमद्धपवर्धनविरचिते शुद्धस्वरूपप्रकाशिका चतुर्थी द्वात्रिंशिका ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108