Book Title: Adhyatmabindu
Author(s): Mitranandvijay, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 77
________________ द्वात्रिंशिका] ___ अध्यात्मबिन्दुः ३३ इत्युच्यते । अयं परमार्थ:-अमून्येव सम्यग्दर्शनादीनि कियन्मात्रयाऽपि परसमयप्रवृत्त्या संवलितानि सप्तार्चिःसंवलितानि सौ(पी)षीव विरुद्धकार्यकर्तृत्वाद् बन्धकारणान्यपि भवन्ति । यदा तु समस्तपरसमयनिवृत्तिरूपया स्वसमयप्रवृत्त्या सङ्गच्छन्ते तदा सप्तार्चिःसंवलनापैराञ्चि सी(पी)षीव विरुद्धकार्यकर्तृत्वाभावात् साक्षादपवर्गबीजान्येव । ततः स्वसमयप्रवृत्तिलक्षणान्निरस्तसमस्तोपाधेः शुद्धात्मोपासनादेव मोक्षः । एतदेव मनसि निधायोक्तम्-न चान्यो यतः पर इति । एतेन केवलव्यवहारावलम्बिनां परसमय[प्रवृत्तानां स्व-]समयप्रवृत्तिस्पर्शशून्यानां चिरेणाभ्यस्तदुष्करतपोभिरपि न निर्वाणप्राप्तिरित्यावेदितम् । तथा आनन्द-बोधौ इति, आनन्दोऽनाकुलत्वलक्षणं सौख्यम् , बोधश्च ज्ञानम् , तौ अपि यत् परब्रह्म विहाय अपरस्मिन् तदतिरिक्त पदे स्थाने न एव भातः। तथाहि-घातिकर्माण्येव हि उन्मत्तकवद् अतस्मिंस्तबुद्धिमाधाय परिच्छेद्यमर्थं प्रत्यात्मानं परिणमयन्ति सन्ति प्रत्यर्थं प्रोताप्रोतसद्भावात् खेदनिदानतां प्रपद्यन्ते, तदभावाच्च शुद्धात्मनः कुतः खेदस्यात्मलाभः स्वभावप्रतीघाताभावात् । आत्मनो हि दृशि-ज्ञप्ती स्वभावः, तयोश्च प्रतिबन्धकक्षयाविर्भूतनिरर्गलप्रचारत्वादखिलं लोकालोकं कवलीकृत्य व्यवस्थितत्वादस्त्यनाकुलत्वम् , तदेव पारमार्थिकं सौख्यमिति । बोधश्चानन्दनिरूपणेनैव लब्ध इति न तदर्थं पुनर्यत्नः ॥३०॥ अथ शुद्धनयव्यवस्थापितं जीवस्वरूपं प्रपञ्चयन्नाह. यत् पञ्चेन्द्रियवर्जितं प्रविगलत्कर्माष्टकं प्रस्खलत् स्वान्तं विग्रहपञ्चकेन वियुतं स्पृष्टं न च प्रत्ययैः । शान्तं शाश्वतमक्रियं निरुपधि द्रव्यान्तरासङ्गतं विष्वक प्रोल्लसदर्चिषा परिगतं तत्त्वं तदेवास्म्यहम् ॥३१॥ व्याख्या—यत् महः पञ्चेन्द्रियवर्जितम् । इन्द्रियाणि किल द्रव्य-भावभेदाद द्विधा । तत्र द्रव्येन्द्रियाणि स्पर्शन-रसन-घ्राण-चक्षुः-श्रोत्राणि पञ्च पौद्गलिकानि शरीरपरिणामापन्नानि निरवधिबन्धपर्यायवशतः आत्मना सहानादिसंसर्गवन्ति अनात्मज्ञानामात्मवदवभासमानानि, तैः वर्जितम्-इन्द्रियाणि यस्य न सन्तीत्यर्थः । व्यतिरिक्तास्तित्वयोगित्वाद् इतरद्रव्यतादात्म्यस्य सर्वथा निषिद्धत्वान्निश्चयतः परद्रव्यसंस्पर्शशून्यत्वा १सप्ताचिः अग्निः । २ सी षि घृतानि । ३ °संवलनापराश्चि संवलनअपरमुखानि संवलनपराकमुखानि । ४ कोष्ठान्तर्गतः पाठः रा प्रतौ नास्ति । ५ परिणमयन्ति तथा सन्ति एते द्वेअपि- वर्तमानकदन्तरूपाणि प्रथमाबहुवचनम् 'घातिकर्माणि' इत्यस्य विशेषणरूपाणि । ६ कवलीकृत्य प्रत्यक्षीकृत्य इति भावः। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108