Book Title: Adhyatmabindu
Author(s): Mitranandvijay, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
द्वात्रिशिका]
अध्यात्मबिन्दुः ।
स्तत्त्वतो येन बुद्धः सर्वे भावास्तत्त्वतस्तेन बुद्धाः'' [ ] इत्युक्तेश्च । ततस्तत्संबुद्धिहें परमतत्त्व ! अन[व]रतम् अविच्छिन्नधारम् अध्यवसायस्थानानामागमेऽसङ्ख्येयत्वेनाभिधानात् तद्वियुतेः कदाचिदप्यसम्भूतत्वाद् अनेकान् अपरिमितान् कल्पनोवान् भावयन् 'एतल्लब्धम्, इदं लभे, पुनरिदं लञ्चा नृपतिरहम् , दुःस्थोऽहम् , सुख्यहम् , दुःख्यहम्, इदं कृतम् , इदं करिष्ये' एवं नानाविकल्पपरम्परया परिणमन् त्वं कर्मजालैः कथमिवाऽऽवध्यसे ? विकल्पानां शुभाशुभत्वेन तदनुगुणवन्धजनन एव व्यापारात् , कृति-ज्ञप्त्योः परस्परविरोधेन कृतिसद्भावे स्वसमयस्थितेर्दुर्घटत्वात् , तदभावे बन्धनिरोधस्यासम्भवात् । ततः किं भावयितव्यमित्यत आह-यदीति । यदि सकलविकल्पातीतं बुद्धिगोचरस्थूलसूक्ष्मविकल्पव्युपरतम् , एकम् इति रागद्वेपद्वैतानुवृत्तेर्दूरापास्तत्वादद्वैतम् , स्वरूपम् इति विज्ञानैकरसनिर्भरस्वरूपास्तित्वमात्रव्यञ्जितपराप्रवेशमात्मरूपम् अनुभवसि ततः किं संमृतिः किं च वन्धः ? उभयोरपि स्वाज्ञानविजृम्भितत्वात् स्वप्रबोधं विना स्वत्वप्नस्येवानुच्छिद्यमानत्वाच्चेत्यनुभव एव निशितं शस्त्रं तदुच्छेदे । ज्ञाततत्त्वानामप्यनुभवाभ्यासविधुराणां स्वरूपलयाभावे कर्मक्षयायोगात् तदभावे संसृतेः संसरणस्याशक्यनिरोधत्वादिति भावः ॥२८॥
एनमेव पुनरप्यर्थं विभावयतिकिं मुग्ध ! चिन्तयसि काममसद्विकल्पां
स्तद्ब्रह्मरूपमनिशं परिभावयस्व । यल्लाभतोऽस्ति न परः पुनरिष्टलाभो
यद्दर्शनाच्च न परं पुनरस्ति दृश्यम् ॥२९॥ व्याव्या-हे मुग्ध ! स्व-परविवेकानभिज्ञ ! कामम् अत्यर्थम् असद्विकल्पान्
'बाला मामियमिच्छतीन्दुवदना सानन्दमुदीक्षते ।
नीलेन्दीवरलोचना पृथुकुचोत्पीडं परिरिप्सते ।। इत्येवमादिकान् किं चिन्तयसि असद्विकल्पज्ञानपरिणतः किं किं भवसीति भावः । तर्हि किमित्यत आह - तद्ब्रह्मेति । तत् स्वानुभवगोचरम् अनिशं विच्छित्तिजनकविषयसंचरिष्णुबुद्धिधारानिरासपूर्वकम् , ब्रह्म इति असङ्ख्येयलोकाकाशपरिमितप्रदेशशालित्वेन बृहत्त्वाद् ब्रह्म प्रत्यग्ज्योतिः, तस्य रूपं शुद्धबुद्धनिर्विकारलक्षणं परिभावयस्व विषयान्तव्युदासेन तस्मिन्नेव लीनो भवेत्यर्थः । कोऽस्य
१ तुलना- 'जे एग जाणइ से सव्वं जाणइ' आचारांगसूत्र १.३. ४. १२२ । २ संबुद्धिः संबोधनम् । ३ ला प्रतौ 'बुद्धिगोचराबुद्धिगोचर' इति पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108