Book Title: Adhyatmabindu
Author(s): Mitranandvijay, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 73
________________ द्वात्रिंशिका] अध्यात्मबिन्दुः कर्मणां द्रव्य-भावभेदभाजा कर्ता न भवेत् । आत्मानं रागादितयाऽपरिणमय(यं)स्तन्निमित्तीकृत्य कर्मभावेन परिणममानानां पुद्गलानामपि स्वस्मिन्नवकाशं न ददातीत्यर्थः इदमत्र तात्पर्यम्-सकलज्ञेयाकारकरम्बितचिवृत्तिमात्मानं जानानोऽनुभवन्नपि यदि स्वरूप एव नियम्य न वर्तते तदाऽनादिवासनोपजनितपरद्रव्यप्रवृत्तेश्चिद्वृत्तेर्निरगेलपरद्रव्यप्रसरस्य हठेन व्यावृत्त्यभावात् स्वस्मिन्ननवस्थानेऽज्ञानोत्थितकर्तृकर्मक्लेशानापायाद् निरुपरागा मतत्त्वोपलम्भाभावः । अत आत्मज्ञानानुभवसंयतानां योगपद्य एव पारमार्थिकमकर्तृत्वं सिद्धयति ॥२६॥ अथ तादात्म्यलक्षणपुरस्सरं वर्णादीन् परद्रव्यत्वेन निश्चिन्वन्नाह-- व्याप्तं यत् किल ववृतीति निखिलावस्थासु याद्रूप्यतो जातु स्यान्न तदात्मताविरहितं तेनास्य साकं भवेत् । तादात्म्यं तदिह स्फुरन्न च भवन मुक्ती नितान्तं ततो वर्णादिः सकलो गणो ननु परद्रव्यत्वमेव श्रयेत् ॥२७॥ व्याख्या—यत् किल द्रव्यं निखिलावस्थासु याद्रूप्यतो यत्पत्वेन व्याप्तं वतीति जातु कदाचिदपि तदात्मताविरहितं तेन रूपेण शून्यं न स्यात् तेन साकम् अस्य द्रव्यस्य तादात्म्यं भवेत् । अयमर्थः यथा किल पुद्गलद्रव्यस्य सर्वास्वप्यवस्थासु वर्णादिव्याप्तस्य भावतो वर्णादिव्याप्तिशून्यत्याभावत च वर्णादिभिस्तादात्म्यम् । ननु च अब-ज्योतिर्मरुतां पौद्गलिकानामपि अगन्धागन्धरसागन्धरसवर्णानामुपलब्धेरसिद्धा पुद्गलानां त्रकालिकी व्याप्तिरिति चेत्, न; क्वचित् कस्यचिद् गुणस्य व्यक्ताव्यक्तत्वस्य कादाचित्कपरिणामवैचित्र्यप्रत्ययत्वेन स्वभावप्रतिधाताभावात् व्यक्तस्पर्शादिचतुष्काणां चन्द्रकान्ताऽरणियवानामारम्भकैरेव पुद्गलैरव्यक्तगन्ध-रस-वर्णानाम् अब्ज्योतिरुदरमस्तामारम्भदर्शनात् । तेजसः पौगलिकस्यापि उद्भूतरूपस्पर्शानुभूतरूपस्पशैद्भूतरूपानुभूतस्पर्शानुद्भूतरूपोद्भूतत्पर्शप्रकारेण चतुर्विधस्य परैरङ्गीकाराच्चेति सिद्धं वर्णादितादात्म्यं पुद्गलानाम् । किञ्च, पुद्गलपरिणतिवैचित्र्यस्याऽऽनन्त्यदर्शनान्न वर्णाद्याविर्भाव-तिरोभावमात्रत्वं विस्मयाय । इदं हि तत्तत्सामग्रीमवाप्य स्थूलं भूत्वा सूक्ष्मं भवति सूक्ष्मं भूत्वा स्थूलं भवतीति तदुक्तम् -- "थूलंथूलं थूलं थूलंसुहुमं च सुहुमथूलं च । मुहुमं मुहुममुहुमं पुग्गलदबस्स पज्जाथा ॥" तत्र छिन्नाः स्वयं सन्धानासमर्थाः काष्ठ-प्रस्तरादयः स्थूलस्थूलाः । छिन्नाः स्वयं सन्धानसमर्थाः क्षीर-सर्पिः-पाथःप्रभृतयः स्थूलाः । स्थूलोपलम्भा अपि छेत्तुं Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108