Book Title: Adhyatmabindu
Author(s): Mitranandvijay, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
हर्षवर्धनोपाध्यायनिबद्धः
(प्रथमा
किमास्रवेषु प्रवृत्तम् उतास्रवेभ्यो निवृत्तम् ? यदि प्रवृत्तं कस्तर्हि तस्य तदभेदज्ञानाद्विशेषः आस्रवप्रवृत्तस्य पारमार्थिकभेदज्ञानत्वासिद्धेः ।
__ "तद् ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः ।।
तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ॥" [ ] इत्युक्तेः ।
यदि निवृत्तं तर्हि कथं न ज्ञानमात्रादेव बन्धनिरोधः ? एतेन केवलात् सुष्ठ वनुष्ठितात् कर्मकाण्डादेवात्मनः शुद्धिरिति निरस्तम् , अज्ञानात् कृतत्य कर्मणो मोक्षं प्रत्यहेतुत्वात् ॥२५॥
ज्ञानात् तु न कर्म प्रभवतीत्याहस्वत्वेन स्वं परमपि परत्वेन जानन् समस्ता
न्यद्रव्येभ्यो विरमणमितश्चिन्मयत्वं प्रपन्नः । स्वात्मन्येवाभिरतिमुपयन् स्वात्मशीली स्वदर्शी
त्येवं कर्ता कथमपि भवेत् कर्मणां नैप जीवः ॥२६॥ व्याख्या-स्वम् आत्मानं स्वत्वेन जानन् शुद्धस्वलक्षणनिर्ज्ञानात् परद्रव्याहंबुद्धिहेतुभूतमिथ्यादर्शनापगमाच्चात्मानमात्मत्वेनावगच्छन् । तथा परं सुख-दुःखादिरूपपुद्गलपरिणामं तन्निमित्ततथानुभवं पुद्गलप्रचयात्मकं शरीरादिकं च परत्वेन जानन् परस्परविशेषनि नाच्छरीरादावात्माऽऽत्मीयबुद्धिमकुर्वन् इत्यर्थः । तथा समस्तानि यान्यन्यद्रव्याणि आत्मनः पृथग्भूतानि पुद्गलादीनि तेभ्यो विरमणमितः स्वत्वभावाव्याप्यतया परत्वेन ज्ञात्वा विरतिं प्रपन्नः परद्रव्यप्रवृत्तिमनादधान इत्यर्थः । अत एव चिन्मयत्वं प्रपन्नः सकलसङ्कल्पविकल्पनिरोधाच्छुद्धात्मनिष्टां बिभ्रत् । तथा स्वात्मन्येवाभिरतिमुपयन् अनादिमोहेन स्वात्मनोऽप्रकृप्य बहिर्नीतायाः सततं परद्रव्यचक्रमणशीलायाश्चिद्वृत्तेनि(नि)रोधात् पारावारमध्यसृत्वरैकपोतकूपस्तम्भपतत्रीवाऽनन्यशरणतयाऽनन्तसहजचैतन्यात्मनि क्रीडां कलयन् तथा स्वात्मानं शीलयति अभ्यस्यति परिचिनोतीति स्वात्मशीली । आत्मनो ज्ञायकस्वभावत्वावधारणेन ज्ञेयज्ञायकसम्बन्धस्यानौपाधिकत्वेन दुस्त्यजत्वान्निखिलद्रव्यैः समं मम ज्ञेय-ज्ञायक एव सम्बन्धः, नान्ये स्व-स्वामिभावादय इत्येवं तेषु ममत्वव्युदासेन विषयपरिशीलनां गरनिगरणादप्यत्यन्तविरसां मत्वा स्वरूपमेव परिशीलयन्नित्यर्थः । तथा स्वदर्शी
आसंसारात् परद्रव्यविश्रान्तं ज्ञानं परद्रव्याद् व्यपोह्य निष्कम्पतया स्वरूप एव लीनं " कुर्वन् । एवमिति दृग-ज्ञप्ति-वृत्तात्मकात्मतत्त्वैकाग्र्येण वर्तमान एप जीवः कथमपि
१ ला प्रतौ तु शरीरादावात्मीय इति पाठः । २ ला प्रतौ तु वृत्तात्मतत्त्व इति पाठः ।
www.jainelibrary.org
For Personal & Private Use Only
Jain Education International

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108