Book Title: Adhyatmabindu
Author(s): Mitranandvijay, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 70
________________ हर्षवर्धनोपाध्यायनिबद्धः [प्रथमा रागस्तु विशुद्धि-सङ्क्लेशाङ्गत्वेन द्विविधः । तत्राहदादिभक्तिरूपो विशुद्धयङ्गत्वाच्छुभः विषयाभिष्वङ्गलक्षणस्तु सङ्क्लेशाङ्गत्वादशुभः । एवमाद्या भावाः परिणामाः शुद्धचितः' शुद्धोपयोगसंज्ञिकायाश्चिच्छक्तेः दुपकाः अशुद्धत्वहेतवः स्युः। अयं भावःरागादयो हि भावाः आत्मन्युत्प्लवमाना आत्मनः शुद्धचैतन्यशक्तिमुन्मूल्य स्वानुरञ्जितामात्मवृत्ति कुर्वाणा निस्तरङ्गचिच्छक्तेस्तरङ्गितत्वं प्रकटयन्तः परभावपरिणतिरूपत्वेन कर्मबन्धहेतवो भवन्ति । एवं च भावास्रवा एव द्रव्यास्रवहेतव इत्यावेदितं भवति, तदभावे तु न द्रव्यकर्मास्रवः सिद्धयति । एतदेवाह- 'रोधादेपाम्' इति । एपां रागादीनां भावानां रोधात् द्रव्यकर्माभावो जायते । शुद्धात्मानुभवरसिको हि स्वरूपमग्नो निवातस्थदीप इव मनागपि स्वरूपादप्रच्यवमानो रागादिभावानात्मसादकुर्वाणो बन्धहेतुतामनास्कन्दन्ननास्रवो भवति । ततः किं भवतीत्यत आह तस्मान्निर्विकारानुभूतिः इति । बन्धाभावे ह्युदयाभावस्ततश्च विकारहेतोरभावादनुभूतेनिर्विकारत्वमित्यर्थः ॥२३॥ अथ क्रोधादिव्यतिरेकद्वारा ज्ञानं साधयति-- ज्ञानं ज्ञाने भवति न खलु क्रोधमुख्येपु तत् स्यात् क्रोधः क्रोधे न हि पुनरयं पूरुषे चित्स्वरूपे । कर्मद्वन्द्वे न हि भवति चिच्चिन्न कर्मावरुद्धे तीत्थं शुद्धग्रहणरसिकः किं विधत्तेऽन्यभावम् ॥२४॥ व्याख्या--ज्ञानं कर्तृ ज्ञाने भवति, सर्वभावानां निश्चयतः स्वरूप एव वृत्तिसद्भावात् कारणसहस्रेणापि द्रव्यान्तरस्वभावस्य द्रव्यान्तरं नेतुमशक्यत्वात् । ज्ञान एव वर्तते क्रोधमुख्येषु न खलु तत् ज्ञानं स्यात् । ननु कतरत् तद् ज्ञानं यद् ज्ञाने विधीयते ? न कतरदपि किन्तु प्रसिद्धमेव ज्ञानमनूद्य इतरत्र वृत्तिबाधनार्थं स्वस्मिन्नेव विधीयते मा विज्ञायि आत्मनीवेतरत्रापि वर्तत इति । तथा क्रोधः क्रोधे वर्तते, सर्वभावानां निश्चयतः स्वरूप एव वृत्तिसद्भावात् । ननु कतरः स क्रोधो यः क्रोधे विधीयते ? न कतरोऽपि किन्तु प्रसिद्ध एव क्रोधोऽनूद्य इतरत्र वृत्तिबाधनार्थं स्वस्मिन्नेव विधीयते मा विज्ञायि क्रोधे इवेतरत्रापि वर्तत इति । अयं क्रोधः पुनश्चित्स्वरूपे पूरुषे न भवति द्रव्यस्य द्रव्यान्तरे सङ्कमाभावात् भिन्नसत्ताकत्वेनैकद्रव्यत्वानुपपत्तेश्च । क्रोध इत्युपलक्षणमशेषमोहविकारस्यापीति । तथा कर्मद्वन्द्वे १. 'चित्'शब्दस्य षष्ठया एकवचनम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108