Book Title: Adhyatmabindu
Author(s): Mitranandvijay, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 68
________________ २४ हर्षवर्धनोपाध्यायनिबद्धः [प्रथमा पर्यायो मत्यादिः । पुद्गलद्रव्यस्य तु अविभागी पुद्गलपरमाणुः स्वभावद्रव्य-व्यञ्जनपर्यायः, द्वयणुकादिर्विभावव्यव्यञ्जनपर्यायः वर्ण-गन्ध-रसैकत्वात् ; विरुद्धस्पर्शद्वयं स्वभावगुणव्यञ्जनपर्यायः, रसरसान्तरगन्धगन्धान्तरादिर्विभावगुणव्यञ्जनपर्यायः आत्मीयात्मीयागुरुलघुगुणद्वारेण प्रतिसमयमुदीयमानषट्स्थानपतितवृद्धिहानिनानात्वानुभूतिलक्षणः । स्वभावगुणपर्यायस्तु समस्तद्रव्येष्वपि साधारणः । धर्मादीनां तु चतुणां द्रव्याणां स्वभावपर्याया एव, न तु विभावपर्यायाः । तदत्र रागादिविभावगुणव्यञ्जनपर्यायः, "जो दु कलुसोवओगो जीवाणं सो कसाउदओ" [ ] इति वचनात् । तद्वद् इति शुद्धाशुद्धस्वभावकर्तृत्ववत् । अयं जीवः चेत् परान् भावान् ज्ञानावरणादिकान् पौद्गलिकान् प्रकुरुते अथवा वेदयते । एवं सति कृतिद्वयस्य स्वपरिणामकि(क्रियालक्षणस्य करणाद् विधानात् स्फुटं सिद्धान्तवाधः स्यात् । अयं भावः—यथा व्याप्य-व्यापकभावेन स्वपरिणामं करोति, भाव्य-भावकभावेन तमेवानुभवति जीवस्तथा व्याप्य-व्यापकभावेन पौगलिकं कर्मापि कुर्यात् भाव्य-भावकभावेन तदेव यद्यनुभवेत् ततः स्व-परसमवेतक्रियाद्वयाव्यतिरिक्ततायां प्रसजन्न्यां स्व-परविभागप्रत्यस्तमनाद् अनेकात्मकमेकमात्मानमनुभवन् कुर्वच मिथ्यादृष्टिरेव स्यात् । न ह्येकं द्रव्यं स्वभिन्नद्रव्यान्तरस्य परिणाम कुर्वत् कदापि दृष्टम् , द्रव्यान्तरोच्छेदापत्ते: सर्वसङ्करादिदोषाच्च । ततः समस्तद्रव्याणामात्मीयात्मीयपरिणामैरव समं कर्तृकर्मभावः सिद्धयति ॥२१॥ एतदेव वृत्तान्तरेण विशदयतिसर्वे भावा निश्चयेन स्वभावान् कुर्वन्तीत्थं साधु सिद्धान्ततत्त्वम् । भिन्नद्रव्यीभूतकर्मप्रपञ्च जीवः कुर्यात् तत् कथं वस्तुतोऽयम् ॥२२॥ व्याख्या सर्वे भावा जीवादयः पट पदार्थाः निश्चयेन स्वभावान् स्वपरिणामान् कुर्वन्ति स्वपरिणामैरै(र)व समं सर्वव्याणां व्याप्य-व्यापकसद्भावात् परभावस्य परेण कर्तुमशक्यत्वात् । कुम्भोत्पत्तौ व्याप्रियमाणः कुम्भकारो हि स्वपरिणामानां ज्ञानेच्छाप्रयत्नानामेव कर्ता न तु धटस्य । कथं तर्हि घटोत्पत्तिरिति चेत् उच्यते-हस्ते उद्यम्यमाने हस्तस्य दण्डोद्यमनवत् हस्तचालनारूपकुलालवीर्यव्यापारमासाद्य मृत्पिण्ड एव घटत्वेन स्वयं परिणमते । तथाहि - कुलालस्तावदिदमस्योपादानमित्यादावुपादानज्ञानेन परिणमति ततो घटं करोमीति चिकीर्षया, ततश्चके मृत्पिण्डारोपण-चक्रभ्रामण Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108