Book Title: Adhyatmabindu
Author(s): Mitranandvijay, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 69
________________ द्वात्रिंशिका] अध्यात्मबिन्दुः मृत्पिण्डपृथुत्व-सङ्कोचकारिस्ववीर्यव्यापारेणेति योगोपयोगयोरेव कर्तृत्वं सिद्धं न . तु घटस्येति । योगोपयोगी चात्मस्वभावौ । ततः सर्वव्याणां स्वभावकर्तृत्वमेव न तु परभावकर्तृत्वमित्यायात[म् !] । एतदेवाह-इत्थं साधु सिद्धान्ततत्त्वम् इति । ततः किमित्याह-भिन्नद्रव्यीभूतेति । तत् तस्माद् हेतोः अयं जीवः भिन्नद्रव्यीभूतं जीवद्रव्यात् द्रव्यान्तरभूतं कर्मप्रपञ्च वस्तुतः कथं कुर्यात् , न कथमपीत्यर्थः । तथाहि- परद्रव्यपरिणामं हि व्याप्य-व्यापकभावेन न तावदयं कुर्यात् तन्मयत्वानुषङ्गात् स्वद्रव्योच्छेदापत्तेच; निमित्त-नैमित्तिकमात्रभावस्य त्वप्रतिषिद्धत्वादितरेतरनिमित्तमात्रीभवनेन द्वयोरपि परिणामाः । ततो मृदा घटस्यैव स्वेन भावेन स्वस्य भावस्य करणाज्जीवः स्वभावस्यैव कर्ता स्यात्-मृदा पटस्यैव स्वेन भावेन परभावत्य कर्तुमशक्यत्वात्-पुद्गलपरिणामानां कर्ता न कदाचिदपि स्यादिति निश्चयः । किंञ्च, 'स्वभाव'शब्देनात्र परिणाममात्रलक्षणो भावः परित्पन्दलक्षणा क्रिया चोभयमपि विवक्षितम् , भवनमात्रस्योभयत्राविशेषात् । तत्र भाववतः(न्तः) क्रियावन्तश्च जीवपुद्गलाः परिणामाद् भेद-सङ्घाताभ्यां चोत्पद्यगानावतिष्टमानोच्छिद्यमाना उत्पादव्यय-ध्रौव्यैक्यानुभूतिलक्षणां सत्तामपरित्यजन्तः स्वभाव-विभावरूपतया परिणमन्ति । तत्र जीवानां भेदसङ्घातौ कर्म-वपुरादिपुद्गलेभ्योऽवसेयौ । शेषव्याणि भाववन्त्येव परिणामादेवोत्पद्यमानावतिष्ठमानोच्छिद्यमानत्वात् । ततो भिन्नसत्ताकत्वाद् द्रव्यान्तरपरिणामः कालत्रयेऽपि द्रव्याणां न सङ्गच्छत इति भावः ॥२२॥ अथ रागद्वेषजय एव शुद्धात्मलाभो भवतीत्यावेदयतिरागो द्वेपो मोह इत्येवमाद्या. भावा नूनं शुद्धचिद्रूपकाः स्युः । रोधादेपां जायते द्रव्यकर्मा भावस्तस्मान्निर्विकारानुभूतिः ॥२३॥ व्याख्या-द्विविधो छुपयोगः -- शुद्धोऽशुद्धश्च तत्र निरुपरागः शुद्धः । तदुक्तम् "क्षीणे रागादिसन्ताने प्रसन्ने चान्तरात्मनि । यः स्वरूपोपलम्भः स्यात् स शुद्धाख्यः प्रकीर्तितः ॥"[ ] सोपरागस्त्वशुद्धः । तत्राशुद्धोपयोगः परद्रव्यसंश्लेपहेतुः परद्रव्यप्रवृत्तत्वात् । स च त्रिधा भिद्यते राग-द्वेष मोहभेदात् । तत्र प्रीतिलक्षणो रागः, अप्रीतिलक्षणो द्वेषः, तत्त्वाप्रतीतिलक्षणो मोहः । तदत्र मोह-द्वेषयोः सर्वथाऽशुद्धोपयोगत्वम् , Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108