Book Title: Adhyatmabindu
Author(s): Mitranandvijay, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 76
________________ हर्षवर्धनोपाध्यायनिबद्धः [प्रथमा विशेषः , इत्याशङ्कायामाह-यल्लाभत इति । यल्लाभतः पुनः [परः] अपर इष्टलाभो नास्ति ।'कुलिशायुधचक्रधरादिपदलाभो हि विषयविमुग्धानां शुद्धात्मानुभवविमुखानामिष्टत्वेन भासते, ब्रह्मास्वादलुब्धानां तु अनाद्यविद्याकवलप्रत्यलचित्कलाशालिपरमात्मसाक्षात्कारान्नापरो लाभः । किञ्च, 'सर्वे भावाः सर्वजीवैः प्राप्तपूर्वा अनन्तशः" [ ] इतिवचनात् कामभोगाश्चानन्तशो लब्धपूर्वा आस्वादितपूर्वाश्च, इदं तु भगवदात्मद्रव्य नित्यव्यक्ततया अन्तःप्रकाशमानमपि कामक्रोधाद्यनेकमोहविकारैरकीक्रियमाणत्वाद् अत्यन्तं तिरोभूतं सत् स्वस्यानात्मवित्तया आत्मविदां च महात्मनां परमकारुणिकानां परमर्षीणामनुपासनाच्च न कदाचिदपि अनुभूतपूर्वं लब्धपूर्व चेत्येतल्लाभ एव महान् लाभ इति । तथा यदर्शनाच्च परं दृश्यं नास्ति ग्रामाकरनगरोपवनप्रासादप्रभृतिरमणीयपदार्थदर्शनस्यापारमार्थिकत्वात् सोपरागसंविदाऽव्यवशी(सी)यमानत्वेन बन्धहेतुत्वाच्च भगवदात्मदर्शनमेव निःशेषकर्मक्लेशापरामृष्टस्पष्टतरचिदुद्गमनिपीतलोकालोकतया सर्वातिशायीति ॥२९॥ अथ मोक्षमार्गोऽप्येतदतिरिक्तो नास्तीति निरूपयतिपन्था विमुक्त विनां न चान्यो यतः परः केवलिभिः प्रदिष्टः । आनन्द-बोधावपि यद् विहाय पदेऽपरस्मिन्न कदापि भातः ॥३०॥ व्याख्या-केवलिभिर्यतः परो भविनां विमुक्तेः पन्था न प्रदिष्टः । मोक्षमार्गो हि निश्चयव्यवहाराभ्यां साध्यमान एव साधीयस्तां दधाति । तत्र व्यवहारतः "जीवादीसद्दहणं सम्मत्तं तेसिमधिगमो णाणं । रायादीपरिहरणं चरणं एसो दु मोक्खपहो ॥” त्ति [समयसार गा० १५५] निश्चयतस्तु दृग्-ज्ञप्ति-वृत्तत्रयात्मक आत्मैव मोक्षमार्गः । तदुक्तम् "दर्शनमात्मविनिश्चितिरात्मपरिज्ञानमिष्यते बोधः । स्थितिरात्मनि चारित्रं कुत एतेभ्यो भवति बन्धः ॥" [ ] अयमर्थः-~यदा हि सम्यक्(ग्)दर्शन-ज्ञान-चारित्रैः स्वभावभूतैः सममङ्गाङ्गिभावपरिणत्यां तत्समाहितो भूत्वा त्यागोपादानविकल्पशून्यत्वाद् विश्रान्तसमस्तव्यापारः सुनिष्प्रकम्पोऽयमात्माऽवतिष्ठते तदाऽयमेव स्वस्वभावनियतचरितत्वान्निश्चयेन मोक्षमार्ग १ कुलिशायुधः इन्द्रः । २ अनादिभूतायाः अविद्यायाः कवले कवलीकरणे अर्थ.द् विनाशे प्रत्यला समर्थी चित्कला तया शालते शोभते एतादृशः परमात्मा तस्य साक्षात्काराद् इति भावः। For Personal & Private Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108