Book Title: Adhyatmabindu
Author(s): Mitranandvijay, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
३४ हर्षवर्धनोपाध्यायनिबद्धः
- [प्रथमा निर्माणनामोदयवन्ध्यत्वाच्चेति शुद्धद्रव्यनिरूपणाया इह प्रक्रान्तत्वात् । यानि तु प्रतिविशिष्टस्वस्वविषयव्यवसायितया खण्डशः आकर्षणलक्षणानि लब्ध्युपयोगलक्षणभावेन्द्रियाणि तान्यपि क्षायोपशमिकत्वान्नात्मस्वरूपभूतानि, ततस्तैरपि वर्जितम् , अखण्डचिच्छक्तिशालितया भगवदात्मनः क्षायोपशमिकभावानवकाशात् क्षायोपशमिकस्य कर्मजपरिणामाच्च । तथा प्रविगलत्कर्माष्टकम् इति ज्ञानावरणादीनि हि कर्माणि पौद्गलिकानि प्रतिबन्ध्यसम्यक्त्वाद्यष्टगुणप्रतियोगितयोपात्ताष्टसंख्याकानि स्वसमयप्रसिद्धानि तैरपि शून्यं यत् तत्त्वं निश्चयतः स्वरूपपर्यालोचनायामबद्धस्पृष्टत्वात् पुष्करपलाशवनिर्लेपत्वादितरद्रव्यस्य स्वरूपे प्रवेशाभावाच्च, यानि तु भावकर्माणि द्रव्यकर्मारोपितविकाररूपाणि तैरप्यपोढं निश्चयतो निर्विकारत्वात् । तथा प्रस्खलत्स्वान्तम् इति, स्वान्तं मनः । तच्च द्रव्य-भावभेदाद् द्विधम् । तत्र द्रव्यमन: पद्गलघटितं मनःपर्याप्त्याख्यनामकर्मोदयजन्यम् , भावमनस्तु सङ्कल्पात्मकम् । तदुभयशून्यं द्रव्यम् , मनोव्यतिरेकस्तु भिन्नसत्ताकत्वादेव सिद्धः, निश्चयतः परारोपितविकाराणामात्मन्यसत्त्वा[द्] भादमनसोऽप्यसत्त्वम् । तथा विग्रहपञ्चकेन औदारिकादिवपुष्पञ्चतयेन वियुतम् अनेकपरमाणुद्रव्यसङ्घातरूपत्वाद् वपुषां भिन्नास्तित्वयोगित्वं सकलप्रामाणिकजनप्रसिद्धमेव । तथा प्रत्ययैः मिथ्यात्वादिभिरपि न स्पृष्टं मिथ्यात्वादीनां पौद्गलिकत्वेन भिन्नद्रव्यत्वात् , चैतन्यविकाररूपाणामपि निश्चयतः शुद्धात्मन्यसम्भवात् । अयमर्थः—एते हि इन्द्रियादयः परे भावाः, न चैतेषां यस्य कर्तृत्वं प्रयोक्तृत्वं वा, न चैतैः समं यस्य सम्बन्धः, न चैतेषां स्वामित्वं, यद्धि परद्रव्यसंस्पर्शशून्यं स्वास्तित्वमात्रनियतं निष्कम्पोपयोगरूपमात्मानं बिभ्रत् केवलं ज्ञायकमेव । एतदेवाह-शान्तं निरुपद्रवम्, कर्मोत्थविकाराणामभूतार्थत्वात्, शाश्वतम् इति अकार्याकारणत्वात् , तत्त्वं च कुतश्चिदनुत्पन्नत्वात् कस्याप्यनुत्पादकत्वाच्चेति, यद्धि कुतश्चिदुत्पद्यते यच्च किञ्चिदुत्पादयति तद्व्याद्यन्तवद् दृष्टम् । तथा अक्रियम् इति; क्रिया हि प्रदेशान्तरप्राप्तिहेतुः परिस्पन्दरूपा; सा चोपाधेरुद्भवन्ती तदभावाच्छुद्धात्मनि स्वाभावं गमयति, · ततश्च प्रदेशसंवर्तविस्ताराभावानिष्कम्पप्रदेशपिशुनितपरमसौस्थितमित्यर्थः । तथा निरुपधि उपधीयत इत्युपधिः उपरञ्जककर्मपुद्गलसंश्लेषः ततो निर्गतम् कर्मरहितमित्यर्थः । अथवा प्रकृतिलक्षणं यैरुपधानं स्वीक्रियते तन्मतव्युदासार्थम् इदं विशेषणम् । अत एव प्रविगलत्कर्माष्टकमित्यनेन पौनरुक्त्यम् । तथा द्रव्यान्तरासङ्गतम् इति; द्रव्यान्तराणि स्वतोऽतिरिक्तानि मूर्तामूर्तानि तैरसङ्गतम् लोकवयपि परद्रव्यैरात्मानमसंपर्चयत् परद्रव्यासंवलितमात्मानं धारयदित्यर्थः।
१.उपाधेः अभावात् । २ स्वाभावम् क्रियाया अभावम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108