Book Title: Adhyatmabindu
Author(s): Mitranandvijay, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 67
________________ द्वात्रिंशिका] अध्यात्मबिन्दुः नम्, यथा क्षीरं दधिभावेन विपरिणमते-विकारान्तरवृत्त्या भवनवृत्तिय॑ज्यते । 'अपक्षीयते' इत्यनेन तु तस्यैव परिणामस्यापचयवृत्तिराख्यायते, दुर्बलीभवत् पुरुषवद् अपचयरूपभवनवृत्त्यन्तरव्यक्तिरुच्यते । 'विनश्यति' इत्यनेन आविर्भूतभवनवृत्तितिरोभवनमुच्यते यथा विनष्टो धट इति प्रतिविशिष्टसंस्थानात्मिका भवनवृत्तिस्तिरोभूता, न त्वभावरूपतैव जाता, कपालाद्युत्तरीभवनवृत्त्यन्तरक्रमावच्छिन्नरूपत्वादित्येवमादिभिराकारैर्द्रव्यमेव तथा विवर्तते । तदत्र रागादिपरिणामो व्याप्यस्तन्निष्ठत्वात्; आत्मा तु व्यापकः विवक्षितपरिणाममन्तरेण परिणामान्तरेऽपि' तस्य वृत्तिसद्भावात्; 'व्यापकं तदतन्निष्टम् व्याप्यं तन्निष्ठमेव हि' [ ] इति वचनात् । तथा च, यथा जीवः स्वयं व्यापको भूत्वा व्याप्यान् रागादिपरिणामान् कुरुते–'करोतिः' इह परिणामार्थः-रागादिरूपतया परिणमतीत्यर्थः । तथा वेदक-वेद्यतो भावात् तान् स्वान् आत्मीयान् स्वभावान् वेदयते अनुभवति रागादिपरिणतिक्षणे हिं 'रागादिमान् अहम्' इत्यनुभवस्य सर्वजनसिद्धत्वात् । तदत्र स्वपरिणामा वेद्या वेदकस्त्वात्मा । अयं भावः --- इष्टानिष्टविषयसमवधाने हि सुख-दुःखादिपरिणत आत्मा तानेव स्वपरिणामान् वेदयमानः [ 'सुख्यहम् , दुःख्यहमित्यभिमन्यते । तदत्र सुःख-दुःखादिषु भावेषु तन्मयीभूय स्थितत्वाद् भवत्यात्मा वेदकः ] सुख-दुःखादयो भावा अप्यनुभाव्यत्वाद् भवन्ति वेद्याः । 'स्वपरिणामान्' इति वाच्ये औपाधिकस्यापि रागादेः विभावत्वकथनम् , अनौपाधिकभाववदौपाधिकभावोऽपि स्वभावः, एवं तेन जीव-पुद्गलयोर्विभाव-स्वभावलक्षणपर्यायाधिकरणत्वं सिद्धम् । तथाहि-द्विधा पर्यायः - अर्थपर्यायः व्यञ्जनपर्याय च । तत्र अर्थपर्यायो नाम भूतत्व-भविष्यत्त्वसंस्पर्शरहित-शुद्धवर्तमानकालावच्छिन्नं वस्तुस्वरूपम् । तदेतद् ऋजुसूत्रविषयमामनन्ति । तदुक्तम् "स्थूलो व्यञ्जनपर्यायो वाग्गम्यो नश्वरः स्थिरः । सूक्ष्मः क्षणप्रतिध्वंसी पर्यायश्चार्थगोचरः” ॥ इति [ ] व्यञ्जनं व्यक्तिः प्रवृत्ति-निवृत्तिनिबन्धनयत्किञ्चिदर्थक्रियाकारित्वम् , तेनोपलक्षितः पर्यायो व्यञ्जनपर्यायः । सोऽपि द्विविधः-स्वभावव्यञ्जनपर्यायः विभावव्यन्जनपर्यायश्च । उभयोऽपि द्रव्य-गुणनिष्ठत्वेनोभयरूपः । तत्र जीवद्रव्यस्य स्वभावद्रव्यव्यञ्जनपर्यायश्चरमशरीरात् त्रिभागोनसिद्धावगाहनारूपः, विभावद्रव्यव्यञ्जनपर्यायो नर-नारकादिः । स्वभावगुणव्यञ्जनपर्यायोऽनन्तचतुष्टयरूपः, विभावगुणव्यञ्जन १-२.कोष्ठान्तर्गतः पाठः रा-प्रतौ नास्ति । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108