Book Title: Adhyatmabindu
Author(s): Mitranandvijay, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 65
________________ २१ द्वात्रिंशिका] अध्यात्मविन्दुः दितम् । तत्र मार्गणान्तःपातिकेवलज्ञानदर्शनादीनामप्यौदयिकत्वमचेतनत्वं चापतत् केन निवार्यम् ? न चैतदिष्टं जैनागमे क्वाऽप्यदृष्टत्वात् । तस्मात् तदभिप्रायं स एव वेद । जाहाति इति 'ओहाक् त्यागे' इत्यस्य यङ्लुकि रूपम् ॥१८॥ अथ अज्ञानादेव कर्म प्रभवतीत्याहपरं स्वात्मत्वेन स्वमपि च परत्वेन कलय नयं रागद्वेपाद्यनियतविभावैः परिणतः । ततो रज्ये रुष्याम्यहमिति विकल्पाननुकलं __ प्रकुर्वन् जीवोऽयं ननु जगति कर्माणि कुरुते ॥१९॥ व्याख्या--परं राग-द्वेष-सुख-दुःखादिरूपपुद्गलपरिणामम्, तन्निमित्ततयाऽनुभवं( वन् ! ) पुद्गलप्रचयरूपं शरीरादिकं च स्वात्मत्वेन कलयन् अज्ञानेन परस्परव(वि)शेपानिर्ज्ञानात् स्वस्वभावत्वेन जानन् । तथा शुद्भबुट्टै कचैतन्यस्वरूपत्वात्मानं च परत्वेन विश्वरूपोऽहमिति दर्शने सर्वव्यमयत्वेन रागादिपरभावत्वेन च कलयन् । अयं स्वसंवेदनसिद्धो भगवान् आत्मा राग-द्वेषादयो ये अनियता अपरिमिता विभावा स्वभावाऽन्यथाभावरूपाः विकाराचैतन्यपरिणामास्तै परिणतः सहजोदासीनावस्थात्यागेन तत्तां प्रपन्नो भवतीति शेषः । अयं भावः कर्मविकाराकलडितजगत्साक्षिनिर्मलकेवलालोकविविक्तमात्मस्वरूपमनवगच्छन् सन् नानाविकारकरम्बितमेवात्मानमनुभवति मन्यते च, न च नवतत्त्वोत्तीर्णम् । तादृशश्च न परभावकर्तृतां कदाचिदप्यपोहतोत्याह-तत इति । ततः अशुद्धपरिणामानामात्मत्वेन मननादेतोः । अहं रज्ये, अहं रुष्यामि इति विकल्पान् अनुकलं प्रतिक्षणं प्रकुर्वन् अयं जीवो जगति कर्माणि कुरुते । रागद्वेषादिपरिणामान् ज्ञानादिवत् स्वसमानाधिकरणतयाऽनुभवन्ननादिनिधनाविकल्पाकर्तृकविज्ञानधनस्वरूपात् प्रभ्रष्टो वारंवारमनेकविकल्पैः परिणमन् द्रव्यभावभेदभाञि कर्माणि तनोतीत्यर्थः । शुभाशुभभावैः परिणमन् योगद्वारेण प्रविशतां पुद्गलानां कर्मभावोत्पत्तौ निमित्तं भवतीत्यर्थः ॥१९॥ स्व-परयोरेकत्वाध्यासादेव कर्तृत्वमाविरस्तीति दृष्टान्तद्वारेण समर्थयते । भूताविष्टो नर इह यथाऽज्ञानतः स्वं च भूतं चैकीकुर्वन् भवति विसदृक्चेष्टितानां विधाता । अप्यात्माऽयं निज-परविवेकच्युतः कामकोपा दीनां कर्ता भवति नितरां शुद्धचिद्रूपकाणाम् ॥२०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108