Book Title: Adhyatmabindu
Author(s): Mitranandvijay, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 71
________________ द्वात्रिंशिका ] अध्यात्मबिन्दुःज्ञानावरणादिकर्मसङ्घाते. चिन्न भवति, ज्ञानावरणादीनां पौद्गलिकत्वेन चिता' तादात्म्यानुपपत्तेः तथा चित् कर्मावरुद्धा न भवति, निर्लेपस्वभावायाश्चितो निश्चयेन कर्मभिरावरीतुमशक्तेः । इत्थं शुद्धं परद्रव्यासम्पृक्तं यद् ग्रहणं ज्ञानं गृह्यन्ते परिच्छिद्यन्तेऽर्था अनेनेति कृत्वा, अथवा शुद्धस्यात्मनो ग्रहणं द्रव्यान्तरविवेकेन अनुभवः; तत्र रसिकः किमन्यभावं विधत्ते रागादिपरिणामानां स्वप्नेऽपि कर्ता त्याद् अपि तु न । तदकर्तृत्वे तन्निमित्तः पुद्गलद्रव्यकर्मसम्बन्धोऽपि निवर्तते । तथा सति ज्ञानमात्रादेव बन्धनिरोधः कथं न सिद्धयेत् ? ॥२४॥ कदेयमनादिप्रवृत्ता कर्तृकर्मप्रवृत्तिनिवर्तत इत्यभिधित्सायां तदुपायमाहयदात्मनाऽऽत्मास्रवयोविभेदो ज्ञातो भवेत् ज्ञानदृशा तदानीम् । निवर्ततेऽज्ञानजकर्तृकर्म प्रवृत्तिरस्मान्निखिलाऽपि मक्षु ॥२५॥ व्याख्या-यदा आत्मना ज्ञानदृशा भेदज्ञानचक्षुषा कृत्वा आत्मास्रवयोविभेदो ज्ञातो भवेत् , भिन्नः खल्वात्मा भिन्नाश्च क्रोधादयः आस्रवाः आत्मस्वभावातिरिक्तत्वात् , सोपाधिकत्वेन जन्याः खल्वास्रवाः भगवानात्मा तु स्वयंसिद्धत्वेनाजन्यः, तदात्वे आकुलत्वोत्पादकत्वाद् दुःखाः खल्वास्रवाः भगवानात्मा तु नित्यमेवानन्दधनत्वादनाकुलस्वभावः, उपयोगकालुष्यजनकाः खल्वास्रवाः भगवानात्मा त्वत्यन्तविशदचिच्चमत्कारशाली, परसमयत्वोपादकाः किलास्रवाः भगवानात्मा तु नित्यमेव दुग्-ज्ञान-वृत्तात्मकस्वलक्षणस्थितत्वात् स्वसमयः, एवं यदा भेदः सुष्टु परिच्छिन्नो भवति तदानीम् अस्माद् आत्मनः निखिलाऽपि अज्ञानजा कर्तृकर्मप्रवृत्तिः मञ्जु शीघ्र निवर्तते । तदत्रात्मा क्रोधाद्युत्पत्तौ ज्ञानरूपतामात्रसहजोदासीनावस्थात्यागेन व्याप्रियमाणत्वात् कर्ता, “यः परिणमति स कर्ता" [ ] इति वचनात् ; क्रोधाद्यास्रवास्त्वात्मना व्याप्यत्वात् कर्म, तच्च वस्तुत आत्मै[व] "परिणामः स्वयमात्मा" [ ] इति वचनात् परिणामिनः परिणामस्वरूपकर्तृत्वेन परिणामादनन्यत्वात् । तदेवमात्मास्रवयोर्विशेषदर्शनाद् भेदं पश्यतः क्रोधाद्यास्रवनिवृत्तिः, ततोऽनादिकालादवच्छिन्नप्रवृत्तः कर्तृकर्मप्रवाहोऽपि हेलथैव नश्यति । ननु कथमात्मास्रवभेदज्ञानादेव कर्तृकर्मप्रवृत्तिनिरासः ? इति चेद् भेदज्ञानस्येहास्रवनिवृत्त्यावेनाभाविनो विवक्षितत्वात् । तथाहि यदिदमात्मास्रवयोर्भेदज्ञानं तत् १. तृतीयान्तम् । चिता सह इति भावः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108