Book Title: Adhyatmabindu
Author(s): Mitranandvijay, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 54
________________ हर्षवर्धनोपाध्यायनिबद्धः [प्रथमा ___ केवलग्रहणात् परस्परसापेक्षयोरन्यतरानवलम्बनात् साध्य(ध्या)सिद्धिरुदाहृता । तथाहि-ये खलु परमर्षयः चैतन्यरूपात्मतत्त्वविश्रान्ते विहितश्रमाः अनादिप्रवृत्तपरभावविश्रान्तिवैमुख्यमासूत्रयन्तः निष्कम्पवृत्त्याऽऽत्मन्येवात्मानं संचिन्तयमानाः प्रमादकादम्बरीलेशस्याप्यवकाशमयच्छन्तः स्वच्छोच्छलच्चिच्छक्तिनिर्झरानन्दसन्दर्भगर्भितात्मीयानन्तशक्तिसमुज्जीवनासाधारणकारणसमरसीभावप्रधानात्मवृत्तयः स्वर्णादिनिष्कम्पाः समलेष्टुकाञ्चनास्तेऽनाद्यपारसंसारपारावारपारमासाद्यानन्तसुखभाजनं भवन्तीति उभयनयायत्तैव पारमेश्वरीदेशनेति सर्वं सुस्थम् ॥६॥ पूर्व सामान्यतः प्रोक्तमपि निश्चयस्वरूपं पुनर्विशेषजिज्ञासार्थमाह आत्मस्वरूपं पररूपमुक्त मनादिमध्यान्तमकर्तृभोक्तु । चिदङ्कितं चन्द्रकरावदातं प्रद्योतयन् शुद्धनयश्चकास्ति ॥७॥ व्याख्या--पररूपं स्वरूपातिरिक्तमौपाधिकराग-द्वेपसंवलितचैतन्यानुभवस्तेन मुक्तम् । तथा अनादिमध्यान्तम् इति आदि-मध्यान्तवन्तो हि देव-नारकादिपर्याया नामप्रकृत्युदयसम्भूताः संख्येयमसङ्ख्येयं कालमात्मनि कृतस्थितयोऽपि न निश्चयतः शुद्धस्य चिदात्मनः स्वरूपभूता आदि-मध्यान्तशून्यत्वात् तस्येत्यकृतकस्वरूपमुक्तम् । तथा अकतः, आत्मा हि अशुद्धनिश्चयेन संसारावस्थायामनादिबन्धनबद्धत्वादात्मनः पारिणामिकचैतन्यभावमत्यजन्नेव राग-द्वेषादिभावैः परिणमन् तत्काले तन्मयत्वेन स्थितत्वाद् भवति तत्तभावानां कर्ता, 'यः परिणमति स कर्ता' इति उक्तः । शुद्धनिश्चयतस्तु अबद्धस्पृष्टत्वेनौपाधिकभावानवकाशात् कुतस्तान् परिणामान् व्याप्यान् व्यापकीभूय कुर्याद् येन कर्ता स्यान्नाम ?। ततः स्थितमेतदकर्चिति । तथा अभोक्त, यद्यप्यशुद्धनिश्चयेन निमित्तमात्रभूतद्रव्यकर्मनिवर्तितसुखरूपात्मपरिणामानां व्यवहारेण द्रव्ये(व्य)कर्मोदयापादितेष्टानिष्टविषयाणां च भोक्ता तथापि शुद्धनिश्चयत उभयरूपस्यापि भोक्तृत्वस्याभाव इति । तथा चिदङ्कितम्, द्रव्यगुणानामेकास्तित्वनिर्वृत्तत्वेन स्वतः पृथग्भावाभावात् सर्वकालं चैतन्यमजहदित्यर्थः । तथा चन्द्रकरावदातम् इति समुल्लसच्चन्द्रचन्द्रिकाभरवद् अनुपलभ्यमानमलकलङ्कमात्मस्वरूपं प्रद्योतयन्, शुद्धनयश्चकास्ति प्रकाशते, शुद्धनयप्रकाश्यमेतादृगात्मतत्त्वमित्यर्थः ॥७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108