Book Title: Adhyatmabindu
Author(s): Mitranandvijay, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 62
________________ हर्षवर्धनोपाध्यायनिवद्धः [प्रथमा हि रागादयः बन्धनसन्निधानासन्निधानाभ्यामात्मनि उन्मज्जन-निमज्जने जनयन्तोऽस्वभावतां ख्यापयन्ति । तथाहि-यत्सद्भावे यज्जायते, यदभावे च यन्न जायते तत् तज्जन्यम् । अस्ति च कर्मोदयेन सहान्वय-व्यतिरेको रागादीनामतस्तद्धेतुकत्वमिति तदभावे च शुद्धात्मनि अप्रादुर्भवन्तः पररूपतां व्यञ्जयन्तो नात्मना सहैकार्थत्वं श्रयन्ति ॥१५॥ अथ चैतन्यातिरिक्ताः सर्वेऽपि परभावा इति बोधयतिचैद्रप्यमेकमपहाय परे किलामी यावन्त एव पुरुषेऽत्र लसन्ति भावाः । तान् संप्रपद्य च परत्वधिया समस्ता नास्ते तदाऽऽस्रवति किं ननु कर्म नव्यम् ? ॥१६॥ व्याख्या--एक चैद्रप्यं चिद्रूपताम् अपहाय वर्जयित्वा चेतनायाः स्वधर्मत्वेन ततो व्यतिरेकत्य कर्तुमशक्यत्वात् । परे किलामी यावन्त एवात्र पुरुषे आमनि भावाः राग-द्वेष-सुख-दुःखादयः समलाचिद्विवर्ता लसन्ति स्फुरन्ति तान् समस्तान् परत्वधिया परभावबुद्ध्या संप्रपद्य अङ्गीकृत्य यदा आस्ते स्वरूपलीनस्तिष्ठति तदा नव्यं कर्म किमास्रवति ? अपि तु नेत्यर्थः । अयं भावःचेतना ह्यात्मनोऽसाधारणधर्मस्तत एवेतरद्रव्यव्यावृत्तिसिद्धेः । सा च दृगरूपा ज्ञप्तिरूपा च । उभयरूपाया अपि तस्या यथाक्रमं सामान्य-विशेषपरिच्छेदकत्वेन चेतनात्वसामान्यानतिक्रमाद विशेपेण ग्रहणम् । अनेकधर्माधारत्वेऽपि चेतनाग्रहणं “प्राधान्येन व्यपदेशा भवन्ति" [ ] इति न्यायानुसरणार्थम् । सा च त्रिधाकर्मचेतना, कर्मफलचेतना, ज्ञानचेतनेति । तत्राऽऽये द्वे कर्मसम्पर्कतो जायमानेऽस्वभावभूते । ज्ञानचेतना तु निरुपरागोपयोगस्वभावा आत्मनः स्वलक्षणभूता स्व-परप्रकाशशालितया स्व-परपरिच्छेत्री तयैव समानजातीयद्रव्यव्यवसायसिद्धेः । सा चैकाऽपवरकप्रबोधिताऽनेकप्रदीपप्रकाशेष्विव सम्भूयावस्थितेष्वपि षट्सु द्रव्येषु मत्स्वरूपादप्रच्यवमाना मामेव पृथगवगमयति । तत इयमेव मम रूपं त्रिकालानुयायित्वादिति तया सहैकत्वं प्रपद्य तदितरान् रागादीन् परत्वबुद्धयाऽध्यवसाय अध्यवसाय स्वरूपगुप्तसुषुप्तकल्पान्तस्तत्त्ववृत्तितया विषयाननुध्यायत उपरञ्जकाभावादेव बन्धनिरोधः सिद्धयेत् ॥१६॥ अथ शरीरसम्बन्धेन भासमाना अपि वर्णादयो नात्मस्वलक्षणभूता इति द्योतयति Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108