Book Title: Adhyatmabindu
Author(s): Mitranandvijay, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 61
________________ द्वात्रिंशिका ] अध्यात्मवन्दुः प्रकृत्यादिभेदाच्चतुर्विधः । तदुक्तम्-'प्रकृति-स्थित्यनुभाग-प्रदेशारतद्विधयः' इति [तत्त्वार्थसूत्र, ८. ४] । प्रकृत्यादितया बद्धानामेव त्वेषामबाधापरिक्षये विपाकवेदनम् उदयः । अप्राप्तकालवेदनम् उदीरणा । बन्धादिलब्धात्मलाभानां कर्मणामात्मप्रदेशेष्वंवस्थानं सत्त्वम् । एतन्मुख्या भावाः खलु कर्मणां प्रवन्धः स्यात् । कर्माण्येव हि बन्धादिनानावस्थाभाञ्जि आत्मनि स्वशक्तिप्रदर्शनेन विकारान् आपादयन्त्यपि निश्चयेन भावान्तरस्वभावेनाभवतो' जीवाद् द्रव्यान्तरभूतान्येव नात्र जीवस्य स्वभावलेशोऽपीति एभ्यः परम् इति । दुरन्तकपायचक्रोदयवैचित्र्यबलेन प्रवर्तमानानामप्येषां स्वरूपेणापरिणमनाद् एभ्यो बन्धादिभ्यः परं भिन्नं यत् तदेवाहं परं सर्वातिशायि चन्द्रार्कादितेजसां मितक्षेत्रावभासित्वेन ततोऽप्युपरि दर्तमानं धाम नित्योदितविशदज्ञप्तिज्योतिषाऽक्रमाक्रान्तमूर्तामूर्तातीन्द्रियन्द्रियकादिसमस्तवस्तुत्तोमलक्षणं महोऽस्मि । कीदृग् धाम ? इति विशिनष्टि कर्मकलङ्कमुक्तम् इति । व्यवहारदृष्ट्या संसारित्वभानेऽपि निश्चयतस्तत्कारणीभूतसकलशक्तिप्रतिबन्धककर्मप्रपञ्चदूरीभूतत्वात् कर्मतद्विकाराऽम्पृष्टम् ॥१४॥ अथ कर्मजन्याखिलविकारनाश एव स्वरूपाभिव्यक्तिरिति व्यक्तीकरोतिवातोल्लसत्तुङ्गतरङ्गभङ्गाद् __ यथा स्वरूपे जलधिः समास्ते । तथाऽयमात्माऽखिलकर्मजन्य विकारनाशात् स्पृशति स्वरूपम् ॥१५॥ व्याख्या—यथा जलधिः समुद्रः वातेन उल्लसन्तो ये तुङ्गाः तरङ्गाः तेषां भङ्गाद् ध्वंसात् स्वरूपे निस्तरङ्गत्वरूपे समास्ते । अयं भावः । यथा जलधिः समीरसञ्चारं निमित्तं प्राप्य उत्तरङ्गीभवति तदभावाच्च निस्तरङ्गतां प्रपद्यते । तत्रोत्तरङ्ग-निस्तरङ्गत्वे यद्यप्येकस्यैवावस्थे तथाप्युपाधि-तदभावाभ्यां भवन्त्यो अस्वभावस्वभावतां द्योतयतः । तत्रौपाधिकस्य भावस्योपाधिविलयाद् विलयेऽपि अनौपाधिकस्य स्वरसत एव प्रवृत्तत्वाद् निर्हेतुकत्वाच्च नास्ति विलयः 'नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात्' प्रमाणवार्तिक, ३. ३४] इत्युक्तेः । अत उक्तम् 'स्वरूपे' इति । तथाऽयम् इति तथा जलधिवद् अयमात्मा अखिलाः कर्मजन्या ये विकाराः राग-द्वेष-मोह-सुख-दुःखादयस्तेषां नाशात् स्वरूपं स्पृशति । अनादिबन्धनोपाधिप्रवृत्ता १. आसंसारात् । २. तेजः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108