Book Title: Adhyatmabindu
Author(s): Mitranandvijay, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
द्वात्रिंशिका]
अध्यात्मबिन्दुः पिहिते गर्भागारे तमसि च सूचीमुखाग्रदुर्भेदे । .. मयि च निमिलितनयने तथापि कान्ताननं व्यक्तम् ।। इति ।
ज्ञानात्तु तेष्वात्मात्मीयबुद्ध्यभावादौदासीन्यपरस्य सततोल्लसदनेकविकल्पव्यपोहाद् निर्विकल्पमात्मानं चेतयमानस्य प्रतिवस्तु पातोत्पाताभावाद् ज्ञेयार्थपरिणमनेनायुञ्जानस्य कारणाभावादेव कार्यानुदयात् तत्फलभूतो बन्धोऽपि न सिद्धयेत ॥१२॥
अथ प्रमाणादयोऽप्यधोभूमिकास्थस्यैव वस्तुन आवेदका ऊर्ध्वं तु न तेषां व्यापार इत्यावेदयति
प्रमाण-निक्षेप-नयाः समेऽपि
स्थिताः पदेऽधः किल वर्तमाने । प्रपश्यतां शान्तमनन्तमूर्व
पदं न चैषां कतमोऽपि भाति ॥१३॥ व्याख्या प्रमाण-निक्षेप-नया समेऽपि अधो वर्तमाने पदे स्थिता । तत्र प्रमीयते येन तत् प्रमाणम् । तच्च द्विविधम्-प्रत्यक्ष परोक्षं चेति । तत्र स्पष्टावभासं प्रत्यक्षम् । अन्तःकार्मणमलविलेपविशेषनिबन्धनो विशुद्भिविशेषः स्पाष्ट्यम् । तत् प्रत्यक्षं द्विविधम्-सांव्यवहारिकं मुख्यं च । सांव्यवहारिकमपि द्विविधम्-इन्द्रियप्रत्यक्षम् अनिन्द्रियप्रत्यक्षं चेति । तत्रेन्द्रियस्य चक्षुरादेः कार्य बहिर्नीलादिविषयसंवेदनमिन्द्रियप्रत्यक्षम् ; तत्रापि शक्तिनियमादेव विषयनियमः । अनिन्द्रियं मनः । मुख्यं प्रत्यक्ष द्विविधम् — विकलं सकलं च । तत्र अवधि-मनःपर्यायौ विकलप्रत्यक्षम् । केवलं तु सकलप्रत्यक्षम् , केवलात्मप्रतिनियतत्वेन प्रवर्तमानत्वात् सकलद्रव्यपर्यायसाक्षात्कारित्वाच्च । अस्पष्टावभासं परोक्षम् । तत् पञ्चविधम्-स्मृतिः प्रत्यभिज्ञानं तर्कोऽनुमानमागमश्चेति । निक्षिप्यते नामादिभेदैर्वस्तु व्यवस्थाप्यते एभिरिति निक्षेपा नाम-स्थापना-द्रव्य-भावाख्या चत्वारः । तत्रातद्गुणे वस्तुनि संज्ञाकरणं नाम । तदुक्तम्
यद् वस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपेक्षम् । पर्यायानभिधेयं नाम यादृच्छिकं च तथेति ।। सोऽयमित्यन्यत्र प्रतिनिधिव्यवस्थापनं स्थापना । तदुक्तम्यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत् करणि(णम्!) । लेप्यादिकर्म तत् स्थापनेति क्रियतेऽल्पकालं च ॥ इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108