Book Title: Adhyatmabindu
Author(s): Mitranandvijay, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
✔
Jain Education International
हर्षवर्धनोपाध्यायनिवद्धः
[ प्रथमा
आत्मानावेकत्वेनावबुध्यमानः आत्मन्यसकृत् कर्तृत्वं प्रयुङ्क्ते । अयं सिद्धान्तः– भयं किल आत्मा परभावसंवलितस्वरूपस्वादनेनानुद्बुद्धभेदज्ञानशक्तिरनादित एवास्ते । ततः पर- आत्मानावेकत्वेन जानन् 'क्रोधोऽहम्' इत्यादिविकल्पं करोति । ततो निर्वि कल्पादकृतकज्ञानरसनिर्भरात् स्वस्वरूपात् प्रच्युतो भूयो भूयोऽनेकविकल्पैरात्मानं व्याकुलयन् 'करोम्यहमेषः' इति कर्तृत्वमात्मन्यध्यास्य कर्ता प्रतिभाति । ज्ञानी तु सन् परभावविविक्तस्वस्वरूपस्वादनेन उद्बुद्धभेदज्ञानशक्ति : 'ये एते कषायास्ते ममास्वभावभूताः, एतैः सह यदेकत्वविकल्पकरणं तदज्ञानात्' इत्येवं नानात्वेन स्व-परौ जानन् क्रोधादिभ्य आत्मनो व्यावर्तनेन समस्तमपि कर्तृत्वमत्यैस्यति, ततो नित्यं जगत्साक्षीभूतो जानीत एवेति सिद्धं भेदज्ञानस्यैव पुरुषार्थसिद्धयुपायत्वम् । तदभावे तु कर्तृकर्मजा क्लेशसन्ततिरविच्छन्नप्रवाहैवेति ॥११॥
अथ परद्रव्येष्वात्माऽऽत्मीयबुद्धेः स्वाज्ञानविजृम्भितत्वेन तदपनोदप्रकारमाह— स्वतोsन्यतो वाऽप्यधिगत्य तत्त्वं
देव देवः किल संप्रबुद्धः ।
१४
द्रव्यं परं नो मम नाहमस्ये
तीयति बुद्धिं यदि वध्यते किम् ? || १२ ||
व्याख्या – एपः अनुभवसिद्ध ज्ञानदर्शनसामान्यात्मा देवः सकलाविद्याविलये ज्ञानानन्दात्मनि स्वरूपे क्रीडनात् स्वतो निसर्गतः अन्यतो गुरूपदेशाद् वा तत्त्वमधिगत्य प्राप्य । निसर्गाधिगमयोरुभयोरपि तत्त्वाधिगमं प्रति हेतुत्वादुभयोपन्यासः । तत्र निसर्गतोऽनादिमिथ्यादृष्टेर्देशनमोहोपशमात्, तदितरस्य तु तत्क्षयक्षयोपशमादिप्रकारेणाऽऽजन्मदुःस्थस्य चिन्तारत्नलाभ इव स्वरूपज्ञानलाभो जायते । एवं संप्रबुद्धः सन् 'परं द्रव्यं मम नो' ' अहमस्य नो' इति यदि बुद्धिमि अधिगच्छति तर्हि किं वध्यते अपि तु न । अयं भावः - अस्य किलात्मनो मोहानलतप्तस्याविचारितरमणीयेषु परभावेषु तृष्णातिरेकवशात् स्व-स्वामिभावबुद्धिर्जायते, ततोऽनवरतं तेष्वभिषङ्गपरस्य ज्ञेयार्थपरिणमनलक्षणया क्रियया युज्यमानत्वात् क्रियाफलभूतो बन्धः सम्पद्यते । तथाहि--अस्ति हि इष्टानिष्टान् विषयानवाप्य राग-द्वेषाभ्यां तद्भावनाभावितस्य तन्मयीभूय तदेव वस्त्वव्यवस्यतो ज्ञानस्य ज्ञेयाकारता । ज्ञानं हि भावनाबलादसन्निहितमपि वस्तु तदाकारीभूय पुरस्थित मिवावभासयति । तथा
१ कर्तृत्वम् अत्यस्यति - दूरे पति ।
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108