Book Title: Adhyatmabindu
Author(s): Mitranandvijay, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 57
________________ Jain Education International द्वात्रिंशिका ] अध्यात्मबिन्दुः व्याख्या – भेदज्ञानाभ्यासतः शुद्धं निरुपरागं चित्तं यस्य तादृशः अयं सम्यग्दृष्टिः नव्यकर्मावलीनां शुभाशुभाध्यवसायतः सञ्चीयमानपौद्गलिककर्मणां नेता आस्रवयिता न स्यात् । १३ अयमर्थः - भेदज्ञानबलेन शुद्धात्मभावनारसिकः परव्येषु ममत्ववासनोन्मेषशून्यः स्व-स्वामिभावसम्बन्धस्य मोहजन्यत्वेनापारमार्थिकत्वात् 'नाहं धर्मः' 'नाहमधर्मः ' ‘नाहमन्तरिक्षम्’ ‘नाहं काल:' 'नाहं पुद्गलः' 'नाहं जीवान्तरम्' 'न चैते मम' इति समस्त परद्रव्येभ्य आत्मानं व्यपोह्य केवलमात्मानं सञ्चेतयमानः परारोपितविकाराणां चात्मत्वेनाऽमननाद् भावास्रवाभावे भवत्येव द्रव्यास्त्रवाभावः । ननु तर्हि पूर्वसञ्चितायाः कर्मावलेः का गतिरित्यत आह- लीनाम् इति । स्वस्मिन् आत्मनि लीनां श्लिष्टांतां कर्मावलीं नितान्तम् अत्यन्तं नामयन् 'तम्' ग्लानौ' इति वचनात् अन्तरङ्ग-बहिरङ्ग-तपोऽनलेन ग्लपयन् निर्झरयन्निति यावत् तान्तम् । अनादिमोहेन शुद्धचैतन्यरूपाद् आत्मतत्त्वात् प्रच्याव्य क्षायोपशमिकशक्त्यधीनतया नितान्तं मन्दत्वापादनेन ग्लानिं नीतं स्वीयं रूपम् आत्मतः स्वरूपम् उज्जीवयेत शुक्लध्यानानलेन धौतीति समूलकापं कषित्वा पुनस्तादवस्थ्यमापादयेत् ॥ १०॥ अथास्यात्मनः कर्तृत्वाध्यासे हि संसारः, स एव कथमिति तद्वीजमुद्घाटयतिअज्ञानतो मुद्रितभेदसंवि च्छक्तिः किलायं पुरुषः पुराणः । परात्मनोस्तत्त्वमसंविदानः कर्तृत्वमात्मन्यसकृत् प्रयुङ्क्ते ॥११॥ व्याख्या अज्ञानतः स्व- परयोरेकत्वाभ्यासेन एकत्वश्रद्धानेन एकत्वानुष्ठानेन च मुद्रिता स्थगिता भेदसंविच्छक्तिः 'त्रिसमयानवधिप्रवृत्तानवरतानुभूयमानात्यन्तस्वादीयश्चैतन्यरसोऽयमात्मा' 'एतद्विपरीतस्वभावाश्च कषायाः' इत्येवं भेदज्ञानसामर्थ्यं यस्य तादृशः अयम् अनुभवसिद्ध: । पुराण इति अनादिनिधनत्वाद् द्रव्यव्यवस्थितेः अनादिनिधनस्य च साधनान्तरानपेक्षत्वाद् गुण पर्यायात्मानमात्मनः स्वभावं मूलसाधनमुपादाय सिद्धत्वात् । यत् तूत्पद्यते न तद् द्रव्यं कादाचित्कत्वात् स पर्यायः घणुकादिवत् मनुष्यादिवच्चेति । पुरुष इति पुरि शयने शयनात् पुरुषः आत्मा । पर-आत्मनोस्तत्त्वमसंविदानः रागाद्युपहितस्वरूपसंवेदनेन ज्ञेय - ज्ञायकभावापन्नौ पर १ अयं दैवादिको धातु तेन च 'तान्त' शब्दस्य निष्पत्ति: । २ घाति इति नामक कर्म । For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108