Book Title: Adhyatmabindu
Author(s): Mitranandvijay, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 51
________________ द्वात्रिंशिका] अध्यात्मविन्दुः व्याख्या-अयं व्यवहरणनयः पुंस आत्मनः स्वरूपं विकारि भणति, परमार्थतः शुद्धनिरञ्जनानादिनिधनचैतन्यमात्रयुक्तमपि अनादिवस्त्वन्तरभूतमोहोपाधिसमुत्थमिथ्यादर्शनाज्ञानाविरत्यादिविकारभाग ब्रूते; तथा नवतत्त्वैमुद्रितं ब्रूते, नवसङ्ख्याकानि तत्त्वानि नवतत्त्वानि तैर्मुद्रितं सुगतमित्यर्थः । जीवाजीव-पुण्य-पापास्रवसंवर-निर्जरा-बन्ध-मोक्षलक्षणानि हि नवतत्त्वानि जीव-कर्मणोरनादिबन्धपर्यायवशतः आत्मन्युत्प्लवमानानि केवलजीवविकारभूतानि । तथा केवलाजीवविकाररूपाः पुण्यपापास्रव-संवर-निर्जरा[बन्ध]-मोक्षाः स्वयमेकस्य पुण्य-पापास्रव-निर्जरा-बन्ध-मोक्षानुपपत्तेः ।' तथाहि-शुभपरिणामः पुण्यम्, तिन्निमित्तीकृत्य शुभतया सञ्चीयमानः कर्माणुप्रचयोऽपि पुण्यम् । अशुभः परिणामः पापम्,] तन्निमित्तीकृत्याशुभतया सञ्चीयमानः कर्माणुप्रचयोऽपि पापम् । तथा येन परिणामेन करणभूतेन इन्द्रियकषायात्रतादिना कर्म आस्रवति स आस्रवकः आस्राव्यं च कर्मेत्युभयमप्यास्रवः । तथा संवार्याः कर्माणुसङ्घाः संवारकः आत्मपरिणामस्तदुभयमपि संवरः । भुक्तरसकर्मपुद्गलपरिशाटनहेतुरात्मपरिणामो निर्जरकः निर्जर्याश्च भुक्तरसकर्मपुद्गलास्तदुभयमपि निर्जरा । बन्धको राग-द्वेष मोहरूपः आत्मपरिणामः वध्यः कर्मपुद्गलसङ्घश्चेत्युभयमपि बन्धः । मोच्याः कर्मपुद्गलाः मोचक आत्मपरिणामश्चेत्युभयमपि मोक्षः । एतैर्हि नवतत्त्वैरासंसारादविच्छिन्नसन्तत्या मुद्रित छन्नं नवतत्त्वरूपमित्यर्थः । तथा क्षुद्ररूपं नानायोनिसंसरणधर्मात्मकम् एकेन्द्रियाद्यनेकपर्यायपरिपाटीपर्याप्तशोभनाशोभनशरीरधारि जन्म-मरणाद्यनेकदेशोपप्लुतं भणति । नन्वेकेन्द्रियादिशरीरे पुद्गलप्रचयघटिते अतस्मिंस्तद्ग्रहरूपत्वादात्मबुद्धविपर्ययत्वेन मिथ्यात्वमिति चेन्न संवादिभ्रमरूपत्वादस्य । तथाहि मणिप्रदीपप्रभयोमणिबुद्धयाऽभिधावतोः । मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ॥ [प्रमाण०वा. २.५७] दीपोऽपवरकस्यान्तर्वर्तते तत्प्रभा बहिः । दृश्यते द्वार्यथान्यत्र तदृद् दृष्टा मणेः प्रभा ॥ दूरे प्रभाद्वयं दृष्ट्वा मणिबुद्ध्याऽभिधावतोः । प्रभायां मणिबुद्धिस्तु मिथ्याज्ञानं द्वयोरपि ॥ न लभ्यते मणिर्दीपप्रभां प्रत्यभिधावता । प्रभायां धावताऽवश्यं लभ्यते वै मणिमणेः ॥ १ तुलनार्थ 'समयसार-टीका' १३ टीका (पृ०३१, ३२ प्रका० रायचन्द्र जैनशास्त्रमाला) द्रष्टव्या। २. कोष्ठगतः पाठः रा-प्रतौ नास्ति । ३ रूपीन्यर्थः रा० । ४ जनन सू० । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108