Book Title: Adhyatmabindu
Author(s): Mitranandvijay, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 49
________________ Jain Education International द्वात्रिंशिका ] अध्यात्मबिन्दुः " भवनं भावः आत्मलाभः, परिणामः पर्याय इति यावत् तदित्यनेन द्रव्यषट्कमभिसम्बध्यते; तदेव हि द्रव्यजातं गति-स्थित्यवगाह - द्व्यणुकादिस्कन्ध-ज्ञानादि- समयादीनां तेन तेन रूपेण भवति, न कूटस्थमवतिष्ठते, न सर्वथोत्पद्यते, नापि सर्वथोच्छिद्यते किन्त्वन्वयिरूपं सत्त्वमजहदेव तथा तथा विवर्तते । तथाहि - द्रव्यं हि ध्रौत्र्यरूपामन्वयशक्तिमपरित्यजद् भवति सदेव, यत्तु तस्याव्यतिरेकव्यक्तेः प्रादुर्भावस्तस्मिन्नपि द्रव्यत्वभूताया अन्वयशक्तेरप्रच्यवनाद् द्रव्यमनन्यदेव, ततोऽनन्यत्वेन निश्रयते द्रव्यस्य सदुत्पादः । एवं च यथाऽनेकासु कुम्भादिव्यतिरेकव्यक्तिषु अन्वयशक्तिमपरित्यज्य सङ्क्रामन् मृद्रव्यमेवैकं नानावस्थान्तरभाक् तथा जीवोऽपि तिर्यगादिपर्यायेण भवन् द्रव्यत्वभूतामन्वयशक्तिमपरित्यजन् स्वयमेव नानावस्थान्तरभाक् किं न स्यात् ? । यथा च मृद्रव्यस्य स्वयं परिणामशक्तियोगित्वेऽपि जलादिसामग्रीसत्यपेक्ष एव कुम्भादित्वेनात्मलाभः तथा जीवस्यापि स्वयं परिणामशक्तियो गित्वेऽपि नामकर्मप्रकृत्युदय सत्यपेक्ष एवं तिर्यगादित्वेनात्मलाभः । एवं चानादिसिद्धौपाधिकसंसरणधर्मा जीव इति सिद्धम् ॥४॥ अथ पदार्थस्वरूपबोधस्य निश्चय व्यवहारमूलकत्वेन तत्स्वरूपं किञ्चित् प्रकटयतिभूतार्थो ननु निश्चयस्तदितरोऽभूतार्थमावेदयन् संत्याज्यो नितरां यतः स्व- परयोर्भेदे स वीजं न हि । भूतार्थस्तु विशुद्धवस्तुकलनाऽभिज्ञो ध्रुवं यत् ततो भूतार्थ ननु संश्रितो विशदधी: सम्यग्दगात्मा भवेत् ॥५॥ व्याख्या–ननु निश्चितं निश्चयो निश्चयनयो भूतार्थः सद्भूतार्थाभिवाद् वस्तु यथास्वरूपं तत् तथैव प्रतिपादयतीत्यर्थः । एतन्नयमन्तरेण ह्यनाद्यशुद्धचिदद्रव्यस्य नवतत्त्वरूपतयाऽनादिकालात् परिणतस्य पङ्कसंचलित सलिलवत् तिरोहितस्वच्छत्वस्य कतमो नामोपायः सहजज्ञायकमात्रस्वरूप संवेदने स्यादतो वस्तुस्वरूपावबोधार्थ निश्चयोऽनुसर्तत्र्य इत्यर्थः । निश्चयनयो हि द्रव्याश्रितत्वात् केवलस्य जीवस्य स्वाभाविकं भादमवलम्ब्य प्रवर्तमानः परभावं परस्य सर्वमपि निषेधन् शुद्धं वस्तु व्यवस्थापयति । अत एव “द्रव्याश्रितो निश्वयः" इति [ ] लक्षणम् । सोऽपि द्विविधः -शुद्धनिश्चयः अशुद्धनिश्चयश्च । तत्र निरुपाधिगुण गुण्यभेदनिरूपणप्रवण आद्यः, द्वितीयस्तु सोपाधिकगुण-गुण्यभेदनिरूपणप्रवणः । तदत्र शुद्धात्मप्रतिपत्तौ शुद्ध निश्चय [नय] एव १ द्रव्यभूत ला । For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108