Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute
View full book text
________________ अभिधर्मसमुच्चयभाष्यम् विप्रतिपन्ना इति वेदितव्याः / नावश्यम्, अनास्रवालंबनानां सास्रवे वस्तुन्यनुशयादिति / रूपधातौ प्रतिघाभावान्नव एव दुःखादिदर्शनप्रहातव्या वेदितव्याः / एवमारूप्यधातौ / सहजा सत्कायदृष्टिः का भावनाप्रहातव्या / यामधिष्ठायोत्पन्नदर्शनमार्गस्याप्यायं [T. 56 A]श्रावकस्यास्मिमानः समुदाचरति / यथोक्तम्"नाहमायुष्मन्दासकेमान् प[Ms. 56 A]ञ्चोपादानस्कन्धानात्मत[आत्मीयतो वा समनुपश्याम्यपि त्वस्ति मे एषु पञ्चसुपादानस्कन्धेष्वस्मीति मानोऽस्मीति छन्दोऽस्मीत्यनुशयोऽप्रहीणोऽपरिज्ञातोऽनिरोधितोऽवान्तीकृत इति"। यथा क्लिष्टस्य धात्रीचैलस्योषादिभिः सुधौतस्य निर्मलस्यापि सतस्तदधिवासनाकृतं गन्धमात्रमनुवर्तते यत्तत्सुगन्धद्रव्यपरिभावनया भूयोऽप्यपनेतव्यं भवत्येवमेव दर्शनमार्गेण प्रहीणपरिकल्पितसत्कायदृष्टिमलस्याप्यार्यश्रावकस्य पूर्वाभिनिवेशाभ्यासकृतमपरिच्छिन्नवस्तु कमात्मदर्शनमनुवर्तते यत्तत्पुनर्गिभावनया प्रहातव्यं भवतीति / अन्तग्राहदृष्टिः सहजोच्छेददृष्टिसंगृहीता वेदितव्या, यया निर्वागात् प्रत्युदावर्तते मानसं परित्रसनमुपादायाथ कस्तहि मे आत्मेति / रागादयो भावनाप्रहातव्या दृष्टिपक्षान् मुक्त्वा // 661. J. (i) (a) तन्निदानवस्तुपरिज्ञानं क्लेशानुशयश्चा[Ch. 727A]. प्रहीणो भवत्येवमादि पूर्ववत् / स्वभावपरिज्ञानं क्लेश एष उत्पन्नः चित्तसंक्लेशात्मक इति / आदीनवपरिज्ञानमात्मा[Ms. 56B]व्यावाधाय संवर्तते परव्याबाधायोभय [T. 56B]व्या[वा] धाय, दृष्टधार्मिकमवद्यं प्रसवति सांपरायिकं दृष्टधर्मसांपरायिकमवद्यं प्रसवति तज्जं चैतसिकं दुःखदौर्मनस्यं प्रतिसंवेदयत इत्येवं त्रिभिः प्रकारैः परिज्ञायोत्पन्नः क्लेशो(b)ऽनधिवासनयोगेन परिवय॑ते / (c) अनुत्पन्नस्य त्वनुत्पादाय मार्गो भाव्यते / / (ii) अभिन्नालंबनेन मनस्कारेणेति मिश्रालंबनेन सर्वधर्मसामान्यलक्षणाकारेणेत्यर्थः / यदि सर्वधर्मा अनात्मन इति नैरात्म्यज्ञानेनैव क्लेशप्रहाणं भवत्यनित्याद्याकाराः किमर्थमुपदिश्यन्ते / न ते क्लेशप्रहाणार्थं किंतीनात्माकारपरिकर्मार्थम्। अनित्याकारं हि . निःसृत्यानात्माकारः / यथोक्तम्"यदनित्यं तदुखं यदुखं" तदनात्मेति"। अत एवानात्माकारस्यानुत्तर्यव्यवस्थानम् / आनुत्तर्याण्यारभ्य त्रीण्यानुत्तर्याणि--ज्ञानानुत्तयं प्रतिपदानुत्तर्य 1. T. drops वेदितव्याः . 2. Ms. न. 3. Ms. तो. 4. Ms. ध. 5. Ms. रं. 6. T. & Ch. “दुःखाकारो लभ्यते, दुःखाकारं हि निःसृत्यानात्माकारो लभ्यते" for "अनात्मारारः" This appears to be proper. . 7. T, drops यदुखं Ch. has it.

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188