Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute
________________ 148 अभिधर्मसमुच्चयभाष्यम् . 200. प्रभिद्यसंदर्शन[वि] निश्चयो यथानिर्दिष्टेषु स्कन्धादिषु धर्मेषु यथायोगमेकावचारकादीनि / तत्र (i) एकावचारको नाम प्रश्नो येनैकं धर्म परिशिष्ट:1 सह प्रत्येक प्रश्नयित्वा तमपहाय द्वितीयं तेनान्यैश्च सह प्रश्नयत्येवमेकैकस्यैव सर्वान् प्रश्नयति / [Ch. 768 A] तद्यथा यश्चक्षुरायतनेन समन्वागतो रूपायतनेनापि सः, यो वा रूपायतनेन चक्षुरायतनेनापि स इति पूर्वपादकः / यश्चक्षुरायतनेन समन्वागतः श्रोत्रायतनेनापि स इत्यत्र चतुष्कोटिकम् / एवं यावन्मनायतनेनापि स इत्यत्र यथा[Ms. 140 B]योगं योजयितव्यम। धर्मायतनेनापि स इत्यत्र पूर्वपादकः / यो रूपायतनेन समन्वागतश्चक्षरायतनेनापि सः, यो वा चक्षरायतनेन रूपायतनेनापि स इति पश्चात्पादकः / यो रूपायतनेन समन्वागतः श्रोत्रायतनेनापि स इत्यत्र चापि पश्चात्पादकः / एवं यावद्धर्मायतनेन यथायोगं योजयितव्यम् / यः श्रोत्रायतनेन समन्वागतश्चक्षरायतनेनापि स इत्यत्र चतुष्कोटिकम् / एवं यावद्ध य[T. 136 A]तनेना[पि] योज्यम् / एवमेकैकामर्षेणानुक्रमशः सर्वाण्यायतनानि परस्परं योजयितव्यानि / / (ii) पूर्वपादक द्वयोर्धर्मयोः कथंचिदेव धर्ममारभ्य परस्परं पृष्टयोः पूर्वधर्ममधिष्ठाय यद्वयाक्रियते / तद्यथा यज्ज्ञानं ज्ञेयमपि तद्यद्वा ज्ञेयं ज्ञानमपि तदिति / पूर्वपादकम् - यत्तावज्ज्ञानं ज्ञेयमपि तदिति / स्याज्ज्ञेयं न ज्ञानम्, तदन्ये धर्मा इति / / (iii) पश्चात्पादक तथैव द्वयोधर्मयोः परस्परं पृष्टयोर्यत्पश्चिममधिष्ठाय व्याक्रियते। तद्यथा यद्ग्राह्यं ग्राहकमपि तद्यद्वा ग्राहकं ग्राह्यमपि तदिति / पश्चात्पा[Ms. 141 A]दकम् - यत्तावद्ग्राहकं ग्राह्यमपि तत् / स्याद्ग्राह्यं न ग्राहकम्, रूपादयः पञ्च विषया धर्मायतनं च संप्रयुक्तकवय॑म् / / ... (iv) द्विकोटिकं यत्र द्वे कोटी व्याक्रियेते तदन्यासंभवात् तद्यथा स्कन्धस्य व्यवस्थानं धातुव्यवस्थानं च निगमय्योच्यते-या स्कन्धसंख्या धातुसंख्यापि सा, या वा धातुसंख्या स्कन्धसंख्यापि सेति / द्विकोटिकम् - स्यात् स्कन्धसंख्या न धातुसंख्या, रूपस्कन्धो विज्ञानस्कन्धश्च / तथाहि नैको धातुरस्ति यः सकलरूपस्कन्धलक्षणो वा स्यात् सकलविज्ञानस्कन्धलक्षणो वा / धातुसंख्या :-न स्कन्धसंख्या, धर्मधातुरिति / 1. T. & Ch. परिशिष्टधमः. 2. Ms. adds पश्च. T. adds अयम् or असौ. 3. Ms. adds म:. T. & Ch. add नय or युक्ति. 4. Ms, स्पृ. 5-5. "न...संख्या" is in the bottom margin of Ms.
Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188