Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute

Previous | Next

Page 184
________________ सांकथ्यविनिश्चयः (iig) अनुमानं प्रत्यक्षशिष्टसंप्रत्ययः / प्रत्यक्षाद्यदन्यच्छिष्टमप्रत्यक्ष नियमेन तत्सहवर्ति प्रसिद्धं द्रष्टुः पूर्व तस्य तत्प्रत्यक्षमीक्षमाणस्य तदन्यस्मिन् शिष्टसंप्रत्यय उत्पद्यते तेनाप्यत्र भवितव्यमेतत्सहवतिनेति तत्प्रत्यक्षपूर्वकमनुमानम्। तद्यथा धूमं पश्यतोऽग्नाविति / / (iih) प्राप्तागमस्तदुभयाविरुद्धोपदेशः / यत्रोपदेश तत्प्रत्यक्षमनुमानं च सर्वथा न विरुध्येते न व्यभिचरतः स प्राप्तागम: संप्रत्ययित्वात् / / $ 203D [T. 140A] वादालंकारो येन युक्तो वादी वादं कुर्वाणोऽत्यर्थं शोभते / स पुनः स्वपरसमयज्ञतादिः / [Ms. 145B] तत्र (i) स्वपरसमयज्ञता स्वसिद्धान्तं परसिद्धान्तं चारभ्य ग्रन्थतश्चार्थतश्च पौर्वापर्येण निरन्तरं व्युत्पत्तिपरिपाकः / (ii) वाक्करणसंपत् शब्दवादिनो वक्ष्यमाणकथादोषविपर्ययेणांनाकुलादिवादिता। (iii) वैशारद्यमनेकोदाहारराभिनिविष्टविद्वज्जनसमावर्तेऽपि ब्र बतो निरास्थता गतव्यथता / (v) स्थैर्य प्रतिवादिनो वचनावसानमागमथ्यात्वरमाणभाषिता / (vi) दाक्षिण्यं प्रकृतिभद्रता प्राश्निकप्रतिवादिचित्तानुवर्तिता // 6203E. [Ch. 722B] वादनिग्रहो येन वादी निगृहीत इत्युच्यते / स पुनः कथात्यागादिभिः / तत्र (i) कथात्यागोऽसाधु मम साधु तवेत्येवमादिभिः प्रकारैः स्वपरवाददोषगुणाभ्युपगमः / (ii) कथासादोऽन्येनान्यप्रतिसरणादिभिः 4-विक्षेप इत्यर्थः / यथोक्तं सूत्रे--आयुष्माश्चुन्दिकस्तीथिकैः सह वादं कुर्वन्नवजानित्वा प्रतिजानाति प्रतिजानित्वाऽवजानातीति / - 4 (iii) कथादोष आकुलादिवचनम् / तत्र (a) आकुलं यदधिकारमुत्सृज्य विचित्रकथीताननम् / (b) संरब्धं यत्कोपोद्धवं द्रवो द्धवम् / (c) अगमकं यद्धर्मतोऽर्थतश्च पर्षद्वादिभ्यामगृहीतम् / (d) अमितं यदधिकं पुनरुक्तार्थं ज्ञाता)' च / (e) अनर्थमनयुक्तम्, तत्पञ्चा कारं द्रष्ट [Ms. 146B]व्यम् / निरर्थकम्, अपार्थकम्, युक्तिभिन्नम्, [T. 146B] साध्यसमम्, जातिच्छलोपसहितम्, अर्थानुपलब्धितोऽसंबद्धार्थतोऽनैकान्ति [क]तः साधनस्यापि साध्यतोऽयोनिशोऽसभ्यसर्ववादानुगंमतश्च / (f) अकालयुक्तवचनं यत्पूर्वकं वक्तव्यं पश्चादभिहितम्, पश्चाद्वक्तव्यं पूर्वमभिहितम्। 1. Ms, adds वादिनो. 2. Ms. has additional rubbed out al. ... 3. Ch. explains here (iv) प्रतिभान. 4...4. "विक्षेप...ऽवजातीति / " is in the bottom margin of Ms. T. omits. this marginal portion. 5. T. नन्द or प्रीति or रति. 6. T. & Ch. प्रतिवादि for वादि'. 7. T. & Ch. अल्पं or कनिष्ठं. 8. Ms. दश for पञ्च.

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188