Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute

Previous | Next

Page 186
________________ सांकथ्यविनिश्चयः उपशान्तस्य च दुर्लभो वादः / सति चातुपशमे दुर्लभं परचित्तानुरक्षणं स्वचित्तानुरक्षणं च येन परे प्रसादं लभेरन विमुक्त्यायतनयोगेन स्वचित्तं समाधीयते / प्रायेण वादे कथमहं जयेयं परे पराजीयेरन्नित्येवं चित्तं समुदाचरति / सति च तस्मिन् परिदाहदुःखसंक्लेशः / तस्मिन्सत्यस्पर्शविहारः / ततो निरन्तरकुशलपक्षप्रयोगासामर्थ्यात्ततो विशेषाधिगम प्रत्यप्राप्तिपरिहाणिरिति / / 8204A [As. P. 107] मातरं पितरं हत्वा इत्यस्यां गाथायां लोके यदत्यर्थमवद्यं पातक तदभिधायीन्यक्षराण्येतानि विशुद्धौ परिणामितानि / किं च लो[Ms. 147B]केऽत्यर्थमवद्यं संमतम् / गुरुजनघातो महाजनघातश्च / स पुनर्गुरुजनो द्विविधः 1-प्रतिनियतो लोक [साधारणश्च]-1 / (i) लोकसाधा. रणोऽपि पुनद्विविधः-(a) परिपालको (b) दक्षिणीयश्च / तत्र (ii) प्रतिनियतो गुरुजनो माता पिता च, पालको राजा, दक्षिणीयः श्रोत्रियब्राह्मणाः, तेषां शुद्धतरसमतत्वात् / तदेषां सर्वेषां घातो गुरुजनघात इत्युच्यते / महाजनघातो राष्ट्रस्य सानुचरस्य घातः / अनुचराः पुनः गवाश्वमहिषो ष्ट्रादयो वेदितव्याः / / कथं पुनरेता[Ch. 773B]न्यक्षराणि विशुद्धौ परिणाम्यन्ते / मात्रादिघातवचनस्य तृष्णादिप्रहाणपरिणामना [T. 142A]द्यथाक्रमं तृष्णाम्, कर्मभवम्, सोपादानं विज्ञानम्, दृष्टि शीलव्रतपरामर्शद्वयम्, षडायतनं च सगोचरमधिकृत्य मात्रादयो द्रष्टव्याः, तत्साधात् / तत्र तष्णा निर्वृत्ति हेतुः / कर्मभव उत्पत्तिहेतुः / स च भावनाबीजाधानयोगेन पितभूतो द्रष्टव्यः / प्राभ्यां हेतुभ्यां सोपादानं विज्ञानं [Ms. 148A] प्रवर्तते / तस्यैवं प्रवर्तमानस्य सत्यपि मोक्षाभिलाषे मोक्षप्राप्तिविघ्नकरावनुपायाग्रशुद्धिप्रत्यायको परामशौं। श्रोत्रियसाधर्म्यमतयोरेतदेव वेदितव्यं यदुताग्रशुद्धयभिनिवेशः। तस्यैव पुनविज्ञानस्याश्रयालंबनभावेन षडायतनं सगोचरं वेदितव्यमिति // . 6204B प्रश्राद्धश्चाकृतज्ञश्चेत्यस्यां गाथायां होनार्थाभिधायीन्यक्षराण्युत्तमार्थ परिदीपितानि / होनो लोके चतुर्विधः-मनस्कमहीनः कायकर्महीनो वाक्कमहीन उपभोगहीनश्च / (i) मनस्कर्महीनः पुनद्विविधः (a) कुशलप्रवृत्तिवैलोम्येन चाश्राद्धः, परलोकाद्यसंप्रत्ययेन दानादिष्वप्रयोगात् / (b) अकुशलप्रवृत्त्यानुकूल्येन चाकृतज्ञः, यत्रोपकारानपेक्षित्वेन मातृवधादिदुश्चरिते निर्मर्यादत्वात् / (ii) कायकर्महीनश्चौरः संधिच्छेदकः, अत्यथं गर्हितजीवित त्वात् / (iii) बाक्कमहीनो मृषावादादि[T. 142B]प्रधानः, तद्रूपस्य सभादिषु प्रवेशाभावात् / (iv) उपभोगहीन: श्वा का क:प्रेतो वेत्येवमादिकः, छर्दितभक्षणादिति / / 1....1. Ms. प्रतिनियतो लोके. 2. Ms. adds रा. 3. Ms. af for afar. 4. Ms.. 5. T. drops जीवित. 6...6. Ms. °नश्चवा° for नः श्वाका.

Loading...

Page Navigation
1 ... 184 185 186 187 188