Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute

Previous | Next

Page 187
________________ 156 अभिधर्मसमुच्चयभाष्यम् - कथं पुनरेता[Ms. 148B]न्यक्षराण्युत्तमार्थे परिणाम्यन्ते / अश्राद्धादिवचनाना मर्हति परिणामनात् / तत्राश्राद्धो विमुक्तिज्ञानदर्शनयोगेन स्वप्रत्ययत्वात्। प्रकृतज्ञोऽसंस्कृतनिर्माणज्ञानात् / संधिच्छेत्ता पुनर्भवप्रतिसंधिहेतुक्लेशप्रहाणात् / हतावकाश आयत्यां सर्वगतिषु दुःखान भिनिर्वर्तनात् / वान्ताशो दृष्टे धर्मे [Ch. 773C] उपकरणवलेन कायं संधारयतोऽपि भोगजीविताशाभावादिति / / 6204C यथा चोक्तम्-असारे सारमतय इति / अस्या गाथायाः पूर्ववदर्थनिर्देशो द्रष्टव्यः / शरीरं पुनरस्याः समाधि निश्रित्य बोधिसत्त्वा दर्शनभावनामार्गाभ्यां महाबोधि स्पृशन्तीति / / 5204D. (i) मात्सर्यधर्मतामनुबयतीति सवासनमात्सर्यानुशयप्रहाणेन तत्तथताश्रयपरिवृत्तिसाक्षात्करणात् / (ii) दानेन च परिखिद्यते, दीर्घकालं दाननिमित्तं परमदुष्करश्रमाभ्युपगमात् / (iii) याचनकं च द्वेष्टि, स्वयंग्राहाभिरुचिततया याचनकप्रातिकूल्यात् / (iv) न किंचित् कदाचिद्ददाति, सर्वस्य वस्तुनः सर्वदा दानात् / (v) दूरे च भवति दानस्य, आसाद्यदाना[Ms. 149A]दिपरिवर्जनात् / / 5 204E. तत्र परमेण ब्रह्मवर्येण समन्वागत इति लोको[T.143A]त्तरेण मार्गेणेत्यर्थः / (i) नान्यत्र मैथुनान्मैथुनस्य निःसरणं पर्येषत इति तस्यैव यथाभूतपरिज्ञानेन तत्प्रहाणात् / यथाभूतपरिज्ञानं पुनरस्य तथता प्रतिवेधाद्वेदितव्यम् / (ii) मैथुनप्रहाणेनोपेक्षको भवति, अब्रह्मचर्यप्रहाणोपेक्षणात् / (iii) उत्पन्नं च मैथुनरागमधिवासयति, कामरागस्याध्यात्ममुत्पन्नस्य बहिःप्रवासनात् / (iv) मथुनप्रतिपक्षेण च धर्मेणोत्त्रस्यति तत्प्रतिपक्षेण मार्गेण * सर्वसत्त्वोत्तरणाय व्यवस्यतीति कृत्वा / (v) अभीक्ष्णं च द्वयद्वयं समापद्यते संक्लेशव्यवद नद्वयेन फलहेतुभेदेन चतुःसत्यात्मकेन [शमथविपश्यनाद्वयेन] पुनःपुनलौकिकलोकोत्तरमार्गद्व[Ms. 149B]यं समापद्यत इति कृत्वा / / / 6 205 किमुपादायेदं शास्त्रमभिधर्मसमुच्चय इति नाम लभते / [Ch. 774A] निरुक्तिन्यायेन (i) समेत्योच्चयतामुपादाय तत्त्वमभिसमेत्याधिगम्य बोधिसत्त्वः संकलनादित्यर्थः। (ii) समन्तादुच्चयतामुपादायाभिधर्मसूत्रतः सर्वचिन्तास्थानसंग्रहादित्यर्थः। (iii) सम्यगुच्चयत्वायायतनतां चोपादायेत्यविपरीतेनोपायेन यावबुद्धत्वप्रापणादित्यर्थः // इत्यभिधर्मसमुच्चये 'भाष्यतः सांकथ्यविनिश्चयो नाम पञ्चमः समुच्चयः समाप्तः // लिखापितमिदं पण्डितवैद्य-श्रीअमरचन्द्रेश जगबुद्धवसंपद इति / / 1. Ms. adds efa. 2. Ms. य. 3. Ms. al. 4. Ms. adds- शमथविपश्यनाइयेन. 5. Ms. तत्तथा for तथता. 7. T. धर्मेन.

Loading...

Page Navigation
1 ... 185 186 187 188