Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute

Previous | Next

Page 182
________________ सांकथ्यविनिश्चयः 151 6 203B. [वादाधिकरणम्] अत्र' वादः क्रियत इति कृत्वा / (i) राजकुलं यत्र राजा स्वयं संनिहितः। (ii) युक्तकुलं यत्र राज्ञाऽधियुक्ताः' (iii) सभा वणिक् सभादि / (iv) प्रामाणिकाः सहायकाः येषां वचनं वादिप्रतिवादिनी न संशयतः / (v) धर्मार्थकुशलाश्च [Ch. 771B] श्रमणब्राह्मणा- ये तेषु शास्त्रेषु ग्रन्थतश्चार्थतश्च व्युत्पन्नबुद्धयः / / 5203C. [As. P. 105] वादाधिष्ठानं यदधिष्ठाय वादः क्रियते तद्यथा (i) साध्यं (ii) साधनं च / / तत्र (ia) स्वभावः साध्य 'प्रात्मस्वभावो धर्मस्वभावश्च नास्तीति वास्तीति वा / / (ib) विशेष: साध्य आत्मविशेषो धर्मविशेषश्च सर्वगतो न सर्वगतो नित्यानित्यो रूप्यरूपीत्येवमादिभिः प्रकारैः / / (iia) प्रतिज्ञा साध्यस्य स्वरुचितार्थस्य परसंप्रापणविज्ञापना। साध्यग्रहणं यदि न क्रियेत सिद्धस्यापि स्वपक्षस्य परेषां देशना प्रतिज्ञा प्रसज्येत / स्वरुचितार्थग्रहणं न क्रियेत परपक्षस्यापि साध्यस्य वचनं प्रतिज्ञा प्रसज्येत / परग्रहणं न क्रियेत एकाकिनोऽपि तद्वचनं प्रतिज्ञा प्रसज्येत / संप्रापणग्रहणं न क्रियेत कायेनापि तदर्थाभिनयनं प्रतिज्ञा प्रसज्येत / [T. 138B] विज्ञापनाग्रहणं न क्रियेताऽविज्ञातेऽपि तदर्थे श्रो[Ms. 143B]तभिः प्रतिज्ञा प्रसज्येत / यथोक्ते तु व्यवस्थाने सर्व एते दोषा न भवन्ति, तस्मादेवमस्या व्यवस्थानं वेदितव्यम् / / . (iib) हेतुस्तस्मिन्नेव साध्येऽप्रतीतस्यार्थस्य संप्रत्ययनिमित्तं प्रत्यक्षोपलंभानुपलंभसमाख्यानम / संप्रत्ययनिमित्तार्थ इह हेत्वर्थ इति दर्शयति / तथाहि प्रत्यक्षानुपलंभादुपलंभावत्यनेन समाख्यानेन तस्मिन् साध्येऽप्रतीतस्यार्थस्य संप्रत्यय उत्पद्यते / तेन तत्समाख्यातं तन्नि मित्तत्वाद्धेतुरित्युच्यते / प्रत्यक्षोपलंभानुपलंभौ पुनः स्वभावं लिङ्गं चाधिकृत्य वेदितव्यो / / __(iic) दृष्टान्तो दृष्टेनान्तेनादृष्टस्यान्तस्य समीकरणसमाख्यानम्, प्रतीतेन भागेनाप्रतीतस्य भागस्य प्रत्यायनाय समाख्यानमित्यर्थः // (iid) उपनयः शिष्टतज्जातीयतद्धर्मोपगमाय नयाch.771C]त्वसमा. ख्यानम् / यथा साध्योऽर्थस्त्रिभिरवयवैः साधितस्तथा शिष्टानामपि तज्जातीयानां साध्यानां साधितार्थधर्मोपगमाय नयत्वेन समाख्यानं युक्त्याऽतिदेश उपनयः / / 1. T. यत्र. afure is illegible in Ms. T. "destroy" or "cut off" for संशयतः. 4. Ms. यते for येत. 5. T. & Ch. omit तत्.

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188