Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute

Previous | Next

Page 151
________________ 120 अभिधर्मसमुच्चयभाष्यम् मृदुमध्ययोः क्लेशप्रकारयोः प्रहाणमार्गे यः पुद्गलः / (xi) अनागामी नवमस्य मृदुमृदोः क्लेशप्रकारस्य प्रहाणाय मार्गपरिसमाप्तौ यः पुद्गलः / / सर्वकामावचरभावनाप्रहातव्यप्रहाणेऽपि पञ्चानामवरभागीयानां संयोजनानां प्रहाणादंनागामिवचनं सूत्र एषां गतिधात्ववरकारणत्वेन प्राधान्यात् / गत्यवरं पुनः नरकतिर्यक्प्रेतगतयः / धात्ववरं कामधातुः। तत्र सत्कायदृष्टिशी'लव्रतपरामर्शविचिकित्साभिः गत्य [Ms. 112 B]वरासमतिकान्तत्वात्कारणत्वम् / कामच्छन्दव्यापादाभ्यां धात्ववरासमतिक्रमादिति // _ [As. P. 90] त्रैधातुकसर्वक्लेशप्रहाणेऽपि पञ्चानामूर्ध्वभागीयानां प्रहाणादहद्वचनम, ऊोपादानापरित्यागकारणत्वेन प्राधान्यम् / तत्र रूपारूप्यरागाभ्यां कामधातौ4 ऊोपादानं रूपारूप्यधातूपपत्तिरित्यर्थः। औद्धत्यमानाविद्याभिरूपिरित्यागः, तृष्णामानविचिकित्सोत्तरध्यायित्वेन सत्र संक्लेशादिति // (xv) कुलं [T. 109 A]कुलः कुलः स्रोतापन्न एव सकृदागामिफलप्रतिपन्नको देवेषु वा मनुष्येषु वा नियमेन [Ch. 755 B] द्वो भवौ संसृत्य परिनिर्वाति / (xvi) एकवीचिक: सकृदागाम्येवानागामिफलप्रतिपन्नको देवेष्वेवैकं भवं संसृत्य परिनिर्वाति / एका वीचिरन्तरं जन्मावकाशोऽस्य सोऽयमेकवीचिकः / (xvii) अन्तरापरिनिर्वायी येन क्शेशावेधेनोपपत्तिदेशं गत्वा प्रतिसन्दध्यात्तत्परिक्षये सति येनानुशयमात्रेण मरणादूर्ध्वं स्कन्धानभिनिवर्तयन् तदवशेषे सत्यन्तराभवमभिनिवर्त्य पूर्वाभ्यस्तमार्गसंमुखीभ्रावादेव स विशिष्टानु[Ms. 113 A]शय"प्रहाणे परिनिर्वाति / स पुनरुपपत्तिदेशं प्रत्यनुच्चलितोच्चलितमात्रदूरगभावस्थतया त्रिविधो वेदितव्यः सत्पुरुषगतिसूत्रानुसारेण / (xix) अनभिसंस्कारेण यो मार्ग10 संमुखीकृत्येति पूर्व स्वभ्यस्तत्वात्स्वरसवाहितयाऽप्रयत्ने [ने]त्यर्थः / (xx) विपर्ययादभिसंस्कारपरिनिर्वायो। (xxi) [Ch. 755C] ऊर्ध्वस्रोता द्विविधः-अकनिष्ठगो भवाग्रगश्च / तत्र (a) अकनिष्ठग आस्वादनाबहुलतयोत्पन्नोत्पन्नमृद्वादिध्यानप्रकारास्वादनात् ब्रह्मकायिकानारभ्य निरन्तरं 1. Ms. ष्टि:. 2. Ch. adds संयोजनानां. ___T. प्राधान्यात्. 4. T. & Ch. कामधातो:. This is proper. 5. Ms. ल. 6. Ms. श्रो. Ms. adds ह. Ch. adds here अभिनिवत्तो वाऽन्तराभवे उपपत्तिभवगमनाय चेतयन्नेव यो मार्ग संमुखीकृत्य विशिष्टानुशयप्रहाणे परिनिर्वाति। अभिसंचेतयित्वा वोपपत्तिभवमभिसंप्रस्थितः भवानुपपत्तियों मार्ग संमुखीकृत्य विशिष्टानुशयप्रहाणे परिनिर्वाति. 9. Ms. स्त्रि, 10. Ms. ग.

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188