Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute
________________ प्राप्तिनिश्चयः 139 नाम प्रति प्रति ते धर्माः कल्पिता आगन्तुकेन नाम्ना व्यवह्रियन्ते इत्येवमादि / (x) यथार्थनामविकल्पप्रतिपक्षेणाह-तानि वोधिसत्त्वः सर्वनामानि न समनुपश्यन्नाभिनिविशत इति, यथार्थं नाम्नामदर्शना [न] भिनिवेशात् // ___6196. निर्विकल्पनात् त्रिधा संतुष्टिनिर्विकल्पनादिभिः / तत्र (i) पथग्जना यदि [Ch. 765 A] [अ] नित्यतादिकां कांचिदेव धर्मतामारभ्य चित्तपर्यवसानं नीत्वा लब्धपरितोषा भवन्त्येव मेतदिति निश्चिन्वन्तः सा तेषां संतुष्टिनिर्विकल्पतेत्युच्यते, तत्र सर्वतख्यिविकल्पोपर[T. 128 A]तेः। (ii) श्रावकाः स्कन्धेषु नित्या[Ms. 132 A]दिविपर्यासप्रतिपक्षेण यथावपादिकं धर्मधातं परीक्षमाणा लोकोत्तरेण ज्ञानेन नैरात्म्यं प्रतिविध्यन्त्यतः सा तेषामविपर्यासनिर्विकल्पतेत्युच्यते / (iii) बोधिसत्त्वास्तदपि रूपादिधर्ममात्रं प्रपञ्च इति विदित्वा सर्वधर्मनिमित्तानि विभावयन्तः परमशान्तेन लोकोत्तरेण ज्ञानेन सर्व गां तथतां प्रतिविध्यन्त्यतः सा तेषां निष्प्रपञ्चनिविकल्पतेत्युच्यते / कथं पुनरसौ निष्प्रपञ्चनिर्विकल्पतेत्युच्यते / (a) यद्यमनस्कारतस्तेन सुप्तमत्तादीनां निर्विकल्पताप्रसङ्गः, तेषां धर्मनिमित्तामनस्कारात् / (b) अथ समतिकमतस्तेन द्वितीयध्यानात् प्रभृति सर्वत्र निर्विकल्पता प्राप्नोति, [वि]तर्कविचारविकल्पानां समतिक्रमात्, ततश्च विकल्पस्य शरीरं हि चित्तचैत्ताः त्रैधातुका इत्यस्य विरोधः / (c) अथ व्युपशमतस्तेन संज्ञावेदितनिरोधसमापतिनिविकल्पता प्राप्नोति, तत्र चित्तचैत्तविकल्पव्युपशमात्, ततश्व ज्ञानाभावः प्रसज्यते / (d) अथ स्वभावतस्तेन रूपं निर्विकल्पता प्राप्नोति, तस्याविकल्पस्वभा[Ms. 132 Bjवत्वात् / (e) अथालंबनेऽभिसंस्कार[T. 128 B]स्तेन सविकल्पतेव निर्विकल्पता प्राप्नोति, निर्विकल्पमेतदित्येतस्याभिसंस्कारस्य निमित्तविकल्पलक्षणत्वात् / तस्मान्नभिः प्रकारैः निर्विकल्पता द्रष्टव्या। अपि त्वालंबनेऽनभिसंस्कारतो द्रष्टव्या। कथं कृत्वा / यदा ह्यस्य बोधिसत्त्वस्थानुलोमिकमववादमागम्य प्रकृत्या सर्वधर्मनिमित्तान्यपरिनिष्पन्नानीति विचारयतस्तद्विचारणाभ्यासवलाधानात् प्रत्यात्ममनभिसंस्कारेणैव ययावन्निष्प्रपञ्चधातौ सर्वधर्मत थतायां चित्तं समाधीयते साऽसावुच्यते निष्प्रपञ्च "निविकल्पतेति / / 1. Ms. दि. 2. Ms. वंती एव degfor वन्त्येव. 3. Ms, त. 4. Ms. णो. 5. Ms. परामाशेन्तेन, 6. Ms. adds at. 7-7. “चित्तं...निष्प्रपञ्च" is in the bottom margin of Ms. 8. T. तेषां for असौ.
Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188