Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute
________________ 144 अभिधर्मसमुच्चयभाष्यम् .. (ix) प्रभेदव्यवस्थानमुखं यत्र चतुष्कोटिक दिभिः प्रश्नरर्थो वर्ण्यते / तद्यथाऽनित्यसूत्रे-यः सदिदं समनुपश्यति सर्वोऽसौ रूपं [T. 131 B] समनुः पश्यति, यो वा रूपं समनुपश्यति सर्वः स सदिदं समनुपश्यतीति चतुष्कोटिकः / प्रथमा कोटिर्वेदनादींश्चतुरः स्कन्धान्नित्यशुचिसुखात्मविपर्यासरसमारोप्य परिज्ञेयप्रहातव्यांश्च समनुपश्यतः / द्वितीया कोटी रूपं नित्यशुचिसुखात्मविपर्यासः समारोप्यापरिज्ञेयाप्रहातव्यं च समनुपश्यतः / तृतीया कोटी रूपं नित्यशुचिसुखात्मविपर्यासरसमारोप्य परिज्ञेयप्रहातव्यांश्च समनुपश्यतः / [Ms. 136 A] चतुर्थी कोटिर्वेदनादींश्चतुरः स्कन्धान्नित्यशुचिसुखात्मविपर्यासैः समारोप्यापरिज्ञेयाप्रहातव्यं च समनुपश्यतः / यथा रूपे चतुष्कोटिक एवं वेदनादौ सर्वत्र विस्तरेण द्रष्टव्यम् / यावद्यस्य कृतं करणीयं सर्वः स नापरमस्माद्भवं प्रजानाति, यावन्नापरमस्माद्भवं प्रजानाति सर्वस्य तस्य कृतं करणीयम् / आह [Ch. 766 C] चतुष्कोटिकम् / प्रथमा कोटिर्यावज्जीवं सुचरितचारिणः पृथग्जनस्य / द्वितीयोच्छेददृष्ट्यादीनाम् / तृतीया अशैक्षस्य / चतुर्थी तानाकारान् स्थापयित्वा // . (x)नयमुखं यत्र षड्भिर्नयरों वर्ण्यते-तत्त्वार्थनयेन प्राप्तिनयेन देशनानयेनान्तद्वयविवर्जनानयेनाचि[T. 132 A]न्त्यनयेनाभिप्रायनयेन च / एषां च षण्णां नयानां पूर्वकास्त्रयो नया उत्तरैस्त्रिभिनयैर्यथाक्रममनुगन्तव्याः / तद्यथाऽऽस्वादनसूत्रे-अस्ति भिक्षवः रूपे प्रास्वाद इत्येवमादिनाऽपवादान्तं समारोपान्तं च वर्जयित्वा तत्त्वार्थनयोऽभिद्योतितः / अस्त्यास्वाद आदीनवो निःसरणमित्यनेनापवादान्तो वजितः, रूपे यावद्विज्ञान इत्यनेन [Ms. 136 B] समारोपान्तः, स्कन्धमात्रे संक्लेशो व्यवदानं चानात्मनीति प्रदर्शयता यावच्चाहं भिक्षवः यावदनुत्तरां सम्यक्संबोधिमभिसंबुद्धोऽस्मीत्यध्यज्ञासिष मित्यनेन. प्राप्तिनयोऽचिन्त्यनयेन परिदीपितः, प्रत्यात्मवेदनीयाधिगमसूचनात् / सर्वमेवेदं सूत्रं देशनानयः / स चाभिप्रायेणानुगन्तव्यः / स परिज्ञेयं वस्तु, परिज्ञेयमर्थम्, परिज्ञाम्, परिज्ञाफलम्, तत्प्रवेदनां चाभिप्रेत्येदं सूत्रं भाषितमिति / तत्र परिज्ञेयं वस्तु रूपादिकम् / परिज्ञेयोऽर्थ आस्वादादिकः, तेन प्रकारेण * तस्य रूपादिकस्य वस्तुनः परिज्ञानात् / परिज्ञेषां पञ्चानामुपादानस्कन्धानामेवं विपरिवर्तेन यथाभूतपरिज्ञानम् / परिज्ञा[T. 132 B]फलमस्मात् सदेवकाल्लोकाद्यावत् सदेवमानुषायाः प्रज्ञाया विमुक्ति विद्विप्रमुक्तिः। तत्प्रवेदनाऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धोऽस्मीत्यध्य'ज्ञासिषमिति / / 1. Ms. Caja for satea. 2. Ms. दू. 3. Ms. स. 4. T. &Ch. add नय. 5. Ms. adds प.
Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188