Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute

Previous | Next

Page 173
________________ 142 अभिधर्मसमुच्चयभाष्यम् व्यवस्थानम् / (ii) विपर्यासवृत्तिः सांक्लेशिकानां धर्माणामयथाभूतं वर्तनात् / (iv) अविपर्यासवृत्तिाव दानिकानां धर्माणाम् / (v) प्रभेदवृत्तिः सर्वसंस्काराणामतीतानागतप्रत्युत्पन्ना [ Ms. 134 A]ध्यात्मिकबाह्यादिप्रकारैर्वर्त*. नात् // 5 199A. [Ch. 766A] व्याख्याविनिश्चयो येन सूत्रान्तानामर्थ निदिशति / स पुनः परिज्ञेयवस्स्वादीनां षष्णामर्थानां प्रतिसूत्रं यथासंभवं प्रतिपादनात् / तत्र (i) परिज्ञेयं वस्तु स्कन्धादि / (ii) परिज्ञेयोऽर्थोऽनित्यतादि / (iii) परिज्ञोपनिषच्छीलेन्द्रियगुप्तद्वारतादि / (iv) परिज्ञा वोधिपक्ष्या धर्माः / (v) परिक्षाफलं विमुक्तिः / (vi) तत्प्रवेदना विमुक्तिज्ञानदर्शनमिति // 5199 B अपि खलु चतुर्दश मुखानि व्याख्यायाः // .. (i) व्याख्या[T. 130A]संग्रहमुखं यत्र सूत्रस्योत्पत्तिप्रयोजनं पदार्थोऽनुसन्धिरभिप्रायश्चोद्यपरिहारश्च वर्ण्यते / / (ii) वस्तुसंग्रहमुखं यत्र सूत्रमुखं शिक्षार्यसत्यवस्त्वादिषु प्रतिपाद्यते / तद्यथा सर्वपापस्याकरणमिति गाथा तिस्रः शिक्षा [म] धिकृत्येत्येवमादि / (iii) अङ्गोपाङ्गमुखं यत्रकेन पदेनोद्देशः शेषनिर्देश इति प्रदर्श्यते / तद्यथा द्वादशक्षरणसंनिपातदेशनायामात्मसम्पत्परसम्पदित्यनयोर्द्वयोर्यथाक्रमं पञ्चभिः पञ्चभिरुत्तरः पदैनिदेश इति // (iv) उत्तरोत्तर[Ms. 134 B]निहरिमुखं यत्रोत्तरस्योत्तरस्याभिनिर्हरणाश्रयत्वादेते धर्मा एवं देशिता इति प्रदर्श्यते / तद्यथा पञ्चेन्द्रियाणि / तथाहि श्रद्दधानो वीर्यमारभते, आरब्धवीर्यस्य स्मृतिरुपतिष्ठते, उपस्थितस्मृतेश्चित्तं समाधीयते, समाहितचित्तो यथाभूतं प्रजानातीति / / (v) प्रतिक्षेपमुखं यत्रेदमार[T. 130B]भ्येदं प्रतिक्षिप्यत इति प्रदर्श्यते / तद्यथा वास्यौपम्यसूत्रे आस्रवक्षयमारभ्य चत्वारः पुद्गलाः प्रतिक्षिप्यन्ते / (a) इतो वाह्यक (b) इहधार्मिकः श्रुतचिन्तामात्रसंतुष्टः (c) भावनायां परितस्यमानो (d) परिपूर्णसंभारश्च / जानतश्चाहं भिक्षवः पश्यतश्चास्रवाणां क्षयं वदामीत्येवमादिना सूत्रखण्डेनाद्यः पुद्गलः प्रतिक्षिप्तः। भावनायोगमनुयुक्तस्येत्येवमादिना द्वितीयः / वास्यौ -पम्यदृष्टान्तेन तृतीयः। नौ-दृष्टान्तेन चतुर्थ इति // 1. Ms. या. 2. Ch. adds यथाभूतं वर्तनात्. T. आर्यमार्गधर्माणां यथाभूत वर्तनात्. 3. Ms. adds ai. 4. Ms. च. 5. T. explains here these ten kinds. 6-6. "ौपम्य."नी" is in the top margin of Ms.

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188