Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute

Previous | Next

Page 176
________________ सांकथ्यविनिश्चयः (xi) परिज्ञादिमुखं यत्र तत्त्वलक्षणमारम्य परिज्ञालक्षणेन, प्रहाणलक्षणेन, साक्षात्क्रयालक्षणेन, एषामेव तत्त्वलक्षणादीनां प्रकारभेदलक्षणेन, प्राश्रयाधिन[Ms. 136A]संबन्धलक्षणेन, परिज्ञादीनामान्तरायिकधर्मलक्षणेन, आमुलोमिकधर्मलक्षणेन, अपरिज्ञादिषु चादीनवानुशंसालक्षणेन चार्थो निर्दिश्यते / तद्यथाऽत्रवास्वादनसूत्रे। तत्र (a) तत्त्वलक्षणमुपादानस्कन्धसंगहीतदुःखसत्यम् / (b) परिज्ञालक्षणं तस्यैवास्वादादिना यथाभूतं परिज्ञानम् / [Ch. 767A] (c) प्रहाणलक्षणं (d) साक्षात्क्रियालक्षणं च सर्वस्माल्लोकाद्विमुक्तिः, आवरणप्रहाणेनाश्रयपरिवत्तिसाक्षात्करणात : (e) भावनालक्षणं विपर्यासापगतेन चेतसा बहुलविहारः / (f) प्रकारभेदलक्षणम्--तत्त्वलक्षणस्य पञ्चधा भेदो रूपं यावद्विज्ञानमिति / परिज्ञालक्षणस्य विधा भेद आस्वादं चास्वादयतो यावन्निःसरणं च [T. 133A] निःसरतो यथाभूतं प्रजानाति / प्रहाणलक्षणस्य साक्षाक्रियालक्षणस्य द्विधा भेद: क्लेशविमुक्तिर्दुःखविमुक्तिश्च / तत्र सदेवकाल्लोकाद्यावत्सदेवमानुषायाः प्रजाया विमुक्तिः क्लेशेभ्यो विमोक्षादत एव तद्विशेषणार्थमाह निःसत इति / तद्यथा ह्यन्यत्र सत्रे-नि:सरणं कतमद्धयः। छन्दरागविनय: छन्दरागप्रहाणं छन्द[Ms. 137B]रागसमतिक्रम इत्युक्तम् / एवमनागतदु:खाभिनिवर्तकक्लेशविसंयोगे सति दःखादपि विप्रमक्तो भवतीति विशेषणार्थमाह-विसंयुक्तो विप्रमुक्त इति / भावनालक्षणस्य द्विधा भेदो दर्शनमार्गो भावनामार्गश्च / तत्र विपर्यासापगतेन चेतसेति दर्शनमार्ग दर्शयति, बहुलं व्य हार्षमित्यनेन भावनामार्गम् / (g) आश्रयाश्रितसंवन्धलक्षणं तत्त्वलक्षणादीनामुत्तरोत्तराणामाश्रयत्वसूचनात् / (h) परिज्ञादीनामान्तरायिक लक्षणमेवं त्रिपरिवर्तेन यथाभूतमपरिज्ञानम् / (i) अनुलोमिकलक्षणं यथाव्यवस्थानमेषामेव रूपादीनामास्वादादितो विचारणा' / (j) अपरिज्ञाना [T. 133B]दीनवलक्षणम विमुक्तिर्यावदनुत्तरायाः सम्यक्संवोधेरसंबोधः / विपर्ययादनुशंसलक्षणं वेदितव्यमिति / / (xii) बलाबलमुखं यत्रके न पदेनानुच्यमानेनायमर्थो न गमित: स्यादिति प्रत्येकं सर्वेषां पदानां सामर्थ्य प्रदर्श्यते / तद्यथा प्रतीत्योत्पादसूत्रे ऽस्मिन् सतीदं भवत्यस्योत्पादादिदमुत्पद्यते, यदुताविद्या[Ms. 138A]प्रत्ययाः संस्कारा इत्येवमादि, एषां च पदानां प्रत्येक सामर्थ्य पूर्ववद्वेदितव्यं मथा प्रतीत्यसमुत्पादस्य लक्षणनिर्देशे / / 1. Ms. न.. 2. Ms. adds ma. 3. Ms. व्या. 4. Ch. adds धर्म. 5. Ms. appears to have additional द. 6. T. & Ch. add आदि. 7. Ms. ते. -8. Ms. ति. 10

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188