Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute

View full book text
Previous | Next

Page 174
________________ सांकथ्यविनिश्चयः 143 (vi) अक्षरपणिाममुखं यत्रान्यस्मिन्नर्थे प्रसिद्धान्यक्षराण्यन्यस्मिन् परिणाम्यन्ते / तद्यथाऽश्रद्धश्चाकृतज्ञश्चेति गाथायाम् / / (vii) नाशानाशमुखं तत्र प्रणाशोऽप्रणाशस्तदुभयोपायस्तदुभयप्रभेद'श्च प्रदर्श्यते। तद्यथा सुजातसूत्रे प्रणाशो [Ms. 135A] बाह्याध्यात्मिकोपध्यवसानम् / तत्र बाह्य उपधिर्गहकल त्रादिलक्षणः, आध्यात्मिक: पञ्चोपादानस्कन्धलक्षणः / अप्रणाश स्तदुभयाध्यवसानविगमः / [Ch. 766B] प्रणाशोपायोऽप्रव्रजनं प्रवजितस्य चास्रवक्षयं प्रति प्रमादः। विपर्ययादप्रणाशोपायो द्रष्टव्यः / तत्रो. भयतो वतायं सुजातः कुलपुत्रः शोभते यच्च केशश्मश्रण्यवहार्य यावत् प्रवजितो यच्चास्रवाणां क्षयाद्यावत्प्रजानामीत्यनेनाप्रणाशत दुपा या[T. 131A]पदेशेन तद्विपरीतलक्षण प्रणाशतदु'पायो सूचितौ भवतः / अप्रणाशप्रभेदो गाथानुगीतेन दशितः-"शोभते वत भिक्षुरयमुपशान्तो निराश्रव" इति / तदेवं प्रव्रजनमास्रवक्षयश्च परिदीपितः / स पुनरास्रवक्षयः. . वीतरागो विसंयुक्तो ह्यनुपादाय निर्वतः / धारयत्यन्ति मं देहं जित्वा मारस्य वाहिनीम् // इत्यनेन लौकिकमार्गवैराग्यतः, लोकोत्तरेण मार्गेणावरभागीयसंयोजनप्रहाणतः, ऊर्ध्वभागीयसंयोजनप्रहाणतः, आध्यात्मिकोपधिप्रहाणतश्व परिदीपितः / हेतुफलक्षयाधिकाराच्चायं निर्दे[Ms. 135B] शो द्रष्टव्यः / एतद्विपर्ययेण प्रणाशप्रभेदः सूचितो द्रष्टव्यः इति / / (viii) पुदगलव्यवस्थानमुखं यत्रेयत: पुद्गलानधिकृत्येदं भाषितमिति प्रदर्श्यते / तद्यथा औदकोपमे सूत्रे द्विविधौ' पुद्गलौ त्रिचतुःप्रभेदान1 °धिकृत्य भाषितम् -- पृथग्जनं दृष्टसत्यं च। पृथग्जनस्त्रिभेदः-ग्रशुक्लोऽल्पशुक्लः बहुशुक्लश्च / दृष्टसत्यश्चतुःप्रभेदः - चत्वारः प्रतिपन्नकाः, चत्वारः फलस्थाः, त्रयः शैक्षाः, एकोऽशक्षः / / 1, Ms. देश foर भेद. 2. Ms. दु. 3. प्रणाश is written above लक्षण in Ms.. 4. Ms. स्त. 5. Ms. भ. 6. Ms. णो. 7. Ms. adds भयो. 8.. Ms.त्यांति for त्यन्ति. 9. Ms. graut for fafaut.. 10. Ms. च. . 11. Ms. °सत्य° for °शुक्ल. . 12. Ms. क्ष्या:.

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188