Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute
________________ 138 अभिधर्मसमुच्चयभाष्यम् 1-बोधिसत्त्वनाम न समनुपश्यति-1 / प्रज्ञापारमितां न समनुपश्यति / बोधि न समनुपश्यति / चरतीति न समनुपश्यति / न चरतीति. न समनुपश्यति / - तथाहि नाम स्वभावेन शून्यं न शून्यतया, रूपं स्वभावेन शून्यं न शून्यतया यावद्विज्ञानं स्वभावेन शून्यं न शून्यतया। तत्कस्य हेतोः / या रूपस्य शून्यता न तद्रूपम्, नाप्यन्यत्र, रूपाच्छन्यता, रूपमेव शून्यत!, शून्यतैव रूपम्, एवं यावद्विज्ञानम् / तत्कस्य हेतोः। नाममात्रमिदं यदुत बोधिसत्त्वनामेति बोधिसत्त्व इति प्रज्ञापारमितेति बोधिरिति रूपमिति यावद्विज्ञानमिति / स्वभावस्य हि नोत्पादो न निरोधो न संक्लेशों न व्यवदानम / प्रज्ञा[T. 127 A]पारमितायां चरन् बोधिसत्त्व उत्पादमपि न समनुपश्यति यावद्वयवदानमपि न समनुपश्यति / तत्कस्य हेतोः / कृत्रिमं नाम [Ms. 131 A] प्रति प्रति ते धर्माः कल्पिता [Ch. 764 C] आगन्तुकेन नाम्नाऽनुव्यवह्रि यन्ते / [यथा यथाऽनुव्यवह्रियन्ते] तथा तथाभिनिविशन्ति / तानि वोधिसत्त्वः सर्वनामानि न समनुपश्यति, असमनुपश्यन्नाभिनिविशते / " तत्र (i) अभावविकल्पप्रतिपक्षेणाह-वोधिसत्त्वो बोधिसत्त्व एव सन्नित्येवमादि, सच्छब्दस्य भावार्थत्वात् / (ii) भावविकल्पप्रतिपक्षणाह-वोधिसत्त्वं न समनुपश्यति यावद्वयवदानमपि न समनुपश्यति यावन्न चरतीति न समनुपश्यति पुद्गलधर्मभावप्रतिषेधात् / (iii) समारो पविकल्पप्रतिपक्षणाह ---- तथाहि नाम स्वभावेन शन्यमिति, अभूतपरिकल्पस्य स्वभावप्रतिषेधात् / (iv) अपवादविकल्पप्रतिपक्षेणाह-न शून्यतयेति, तस्मिन्नाम्नि तेन परिकल्पितेन परिकल्पित स्वभावेन विरहिततायाः सर्वदास्तित्वात् / (v) एकत्वविकल्पप्रतिपक्षेणाह--या रूपस्य शन्यता न तद्रूपं यावद्विज्ञानमिति, भावान्तरत्वात् / रूपादयो हि परिकल्पितः स्वभावः, शन्यता परिनिष्पन्न इति / (vi) पृथकत्व[T. 127 B]. विकल्पप्रतिपक्षेणाह-नाप्यन्यत्र रूपाच्छन्यताया रूपम्, यावच्छन्यतैव [Ms. 131 B] विज्ञानमिति, परिकल्पितस्वभावस्या' लक्षणत्वात्तव्यतिरेकेण तद्भावासंभवतः। (vii) स्वभावविकल्पप्रतिपक्षणाह-नाममात्रमिदं यदत रूपमिति यावद्रिज्ञानमिति. अभिलापव्यतिरेकेणाभिलाप्यस्वभावाभावात। (viii) विशेषविकल्पप्रतिपक्षेणाह-स्वभावस्य नोत्पादो यावद्वयवदानमपि न समनुपश्यतीति, उत्पादादिविशेषलक्षणप्रतिषेधात् / (ix) यथानामार्थविकल्पप्रतिपक्षेणाह-कृत्रिमं 1-1. "बोधि...०पश्यति" is in the bottom margin of Ms. 2-2. "चरतीति... पश्यति" is in the bottom margin of Ms. 3. Ms. adds here बोधिसत्त्व इति, 4. Ms. नो. 5. T. & Ch. omit परिकल्पित. 6. विरहितताया: As corrected in the bottom margin of Ms. 7. T. स्य. 8. Ms. दभा. for भा. प.
Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188